________________
२९३
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपाद: सत्यमेवेति)। धातोः सस्यापि धकारे लोपो वक्तव्य एव चकाधीति सिद्धये, तदसत्। चकाद्धीति भवितव्यम्। अन्यस्तु चकाधीति प्रमाणयन् सिचो धकार इति द्विसकारं पठति, धातुसकारस्य सिचश्चेति। भाष्यकारोऽप्याह -
धे सकारसिचो लोपश्चकाधीति प्रयोजनम्। आशाध्वं तु कथं जश्त्वं सकारस्य भविष्यति।। सर्वमत्र प्रसिद्ध स्यात् श्रुतिश्चात्र न भिद्यते।
लुङश्चापि न मूर्धन्ये ग्रहणं सेटि दुष्यति।। जश्त्वं तृतीयत्वं लुङोऽद्यतन्याश्चापि मूर्धन्ये ढत्वे ग्रहणं न कर्तव्यम् ? सत्यम्। सेटि दुष्यतीति अलविढ्वमिति। इदमसमीक्षितमिव दृश्यते यदि लुङ्ग्रहणं न स्यात् । अकृढ्वमिति। केन ढत्वं स्यात्। अथ "ह्रस्वाच्चानिटः” (३।६। ५२) इति नोच्यते। 'अकृत, अकृथाः' इति केन सिध्यति। ह इत्यादि। हकार: एकारे वक्तव्य एवेत्यर्थः। अस्ते: सस्य छन्दसि दृश्यते न भाषायामिति।। ७१९ ।
[वि० प०]
अस्तेः। सावितीकार उच्चारणार्थः, तेन व्यतीहारविषयादस्तेरात्मनेपदे से परे 'व्यतिसे' इत्यपि भवति। इह अकारसकारयोर्लोपे कृते 'से' इति प्रत्ययमात्रं पदम्। इदं तर्हि न सिध्यतीत्याह - कथमित्यादि। “अस्तेर्दिस्योः' (३।६। ८७) इति ह्यस्तन्या: सावितीट, तेन व्यवधानाल्लोपो न भवति। अथ इटस्तद्ग्रहणेन ग्रहणान्नास्ति व्यवधानता। एवन्तर्हि लाक्षणिकत्वम् ‘आगमा यद्गुणीभूतास्ते तद्ग्रहणेन गृह्यन्ते' (का० परि० १४) इत्यनेन लक्षणेन सेरीसरूपस्य तद्पोपादानादेतेन परमतमादर्शितम्। इह पुनरिकार: कार्यार्थ एव। अन्यथा उच्चारणार्थमकारमेव कुर्याद् असन्दिग्धार्थत्वात्, तस्माद् वर्तमानाया एव सिरवशिष्यते, कुतोऽन्यत्र प्राप्तिः। अत एव आत्मनेपदे व्यतिसे' इतीह भवितव्यम्।
अन्यस्तु मन्यते क्रियाविनिमयेऽर्थेऽस्तेरात्मनेपदमेव नाभिधीयते, तदा पारिशेष्यादेव सिरवगम्यते इतीकारः सुखार्थो भवतीति। 'आद्ध्वम्, आशाद्ध्वम्' इति। 'आस उपवेशने, आङः शास इच्छायाम्' (२।४५, ४६) हस्तन्या ध्वम्, "धुटां तृतीयश्चतुर्थेषु" (३। ८। ८) इति सकारस्य दकारः, तेन धातुसकारस्य धकारे लोपो न वक्तव्यः। इति यदपि चकाधीति प्रयोजनम्, तदप्यसङ्गतम्। इह चकाद्धीति भवितव्यम्। अत एव "हुधुड्भ्यां हेर्षिः" (३।५।३५) इत्यत्र वृत्तिकृता 'जुहुधि, चकाद्धि' इत्युदाहृतम्। इहेत्यादि। अत्रापि पूर्ववदात्मनेपदमेव। कथमित्यादि। "नाम्यादेर्गुरुमतोऽनृच्छ:" (३।२। १९) इत्यामृ। तत: “असभुवौ च परस्मै" (३।२।२३) इत्यस, द्विवचनम्, “अस्यादेः सर्वत्र" (३।३।१८) इति दीर्घत्वे विरूपोऽयं वर्तते इत्याह-तिपेत्यादि। तदेतन्न वक्तव्यम्, छान्दसत्वात्।। ७१९।