________________
२९२
कातन्त्रव्याकरणम्
गा।
[वि० प०]
सन्ध्य० । व्यतिरे इत्यादि। व्यतिपूर्वो ‘रा ला दाने' (२। २२), "अनियमे चागतिहिंसाशब्दार्थहसः" (३। २। ४२-६६) इति रुचादित्वादात्मनेपदम्, वर्तमानाया उत्तमपुरुषस्यैकवचनम्, पूर्ववद् विकरणस्य लुक् ।। ७१८।
[समीक्षा] द्रष्टव्य, पूर्वसूत्र ७१७. [विशेष वचन] १. एदैतोरिति सिद्धे सन्ध्यक्षरग्रहणं सुखपाठार्थम् (दु० टी०)। [रूपसिद्धि]
१. व्यतिरे। वि + अति + रा + ए। 'वि – अति' उपसर्गपूर्वक ‘रा दाने' (२। २२) धातु से वर्तमानासंज्ञक उत्तमपुरुष-एकवचन 'ए' प्रत्यय, अन् विकरण का लुक् तथा प्रकृत सूत्र से धातुघटित आकार का लोप।
२. व्यतिले। वि + अति + ला + ए। 'वि – अति' उपसर्गपूर्वक ‘ला दाने' (२। २२) धातु से वर्तमानासंज्ञक उ० पु० - ए० व० 'ए' प्रत्यय, अन् विकरण का लुक् तथा प्रकृत सूत्र से आकार का लोप।। ७१८।
७१९. अस्ते: सौ [३।६। ३९] [सूत्रार्थ
'सि' प्रत्यय के परे रहते ‘अस्' धातु के अन्तिम वर्ण 'स्' का लोप होता है।। ७१९।
[दु० वृ०]
अस्ते: सौ परेऽन्तस्य लोपो भवति। असि। कथम् आसी:, लाक्षणिकत्वात्। 'आद्ध्वम्, आशाद्ध्वम्' इति सस्य तृतीयेऽपि ध्वे उच्चारणस्याभेदात्। ह एकारे वक्तव्यः – व्यतिहे। कथम् ईहामासे ? तिपा धातुस्वरूपनिर्देशात् ।। ७१९ ।
[दु० टी०]
अस्तेः। सावितीकार इहोच्चारणार्थः प्रतिपत्तव्यः । तेन 'व्यतिसे' अकारसकारलोपे 'से' इति प्रत्ययमात्रं पदम्। कथमित्यादि। अस्तेमुस्तन्यां साववश्यमीटा भवितव्यम्, ततश्च व्यवधानमित्याह-लाक्षणिकत्वादिति। नैतत् सूत्रकारस्य मतम् पाठसुखार्थमेव। तर्हि उच्चारणार्थं विदध्यान्न त्विकारं सन्दिग्धत्वात्। तस्माद् अस्ते: क्रियाविनिमये सत्यात्मनेपदे नास्ति सलोप इति। अन्य आह – आत्मनेपदमेव नाभिधीयते इतीकारमन्तरेण पारिशेष्यात् सिरेव प्रतीयते इतीकारः सुखप्रतिपत्त्यर्थः। 'आद्ध्वम्, आशाद्ध्वम्' इति 'आस उपवेशने, आङ: शासु इच्छायाम्' (२।४५, ४६), शस्तन्या ध्वम् ? सत्यम्। (पूर्वपक्षवादी आह-यद् वृत्तौ सिद्धान्तो दत्तस्तद् 'आद्ध्वम्, आशाद्ध्वम्' इत्यादौ