________________
२८०
कातन्त्रव्याकरणम्
तस्मिन् प्रत्ययेऽनन्तरोऽनुमोयते इति। अत्रापि गव्यूति जङ्घन्यते, कुटिलं गच्छतोति। गत्यर्थात् कौटिल्ये एवेति यशब्द:। हेरचणीति। ‘हि गतौ' (४।११) इत्यस्य योऽभ्यासस्तन उत्तरस्य हस्याभ्यासनिमित्ते प्रत्यये भवति। यद्येवम्, अचणीति किमर्थम्, इना व्यवहितत्वान्न भविष्यति लप्तस्यापि स्थानिवभावात्, तर्हि ज्ञापयति - कारितस्यापि प्रकतिग्रहणेन ग्रहणमित्याह – हेरचणीति वचनादिति। वक्तव्यं व्याख्येयम्। हिनोत्यर्थे घिधातुरस्ति, द्विवचननिमित्ते हिनोतेश्चाप्रयोगोऽभिधानादत्रेति ।।७१० ।
[वि० प०]
अभ्यासात्।। हन्तेरभ्यासादित्यादि। यद्यपि हन्तेरित्येकेयं षष्ठी हन्तेर्हस्येनि चरितार्था, तथापि श्रुतत्वाद् हन्तेरेवाभ्यासात् परस्य स्यादिति। इह तु हन्तेर्युडन्ताद् यिनन्तात् सन्, तत: सनन्नस्य धात्वन्तरस्य योऽभ्यास इति कुन: प्रसङ्गः। हेरित्यादि। 'हि गतौ' (४। ११) इत्यस्य योऽभ्यासस्तत उत्तरस्य हकारस्याभ्यासनिमिने प्रत्यये चणवर्जिते परे घो भवति। इह चणो वर्जनाद् इना व्यवहितेऽपि द्विवंचननिमित्त प्रत्यय भवति। प्रजिघाययिषतीति। अन्यथा हि इनमन्तरेण चण नास्तीति व्यवहितत्वान्न भविष्यतीति लुप्तस्यापोन: स्थानिवद्भावात् कि निषेधनेति। प्राजोहयदिति। पूर्ववट "इन्यसमानलोपोपधाया ह्रस्वश्चणि' (३।८।४४' इत्यादिना ह्रस्वादिकं कार्यम्। वक्तव्यमिति। वक्तव्यं व्याख्येयम्। इह हिनोत्यर्थे धिरिति धात्वन्तरमेवेति वेदितव्यम्, द्विर्वचननिमित्तप्रत्यये हिनीतेश्चाप्रयोगोऽनभिधानादिति।। ७१०।।
[समीक्षा]
'जघान्, जिघांसनि. जवन्यते' शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में हकार को घकारादेश किया गया है। पाणिनि का सूत्र है - 'अभ्यासाच्च'' (अ. ७।३।५५)। इसमें "चजो: कु घिण्ण्यतो:' (अ०७३।५२) द्वारा 'कु' को अनुवृत्ति होने से ‘हन्' धातु के हकार को कवर्गादेश प्रवन होना है। कु = कवर्ग में यत: ५ वर्ण है, अत: 'क-ख-ग-इ' इन चार वर्णों को निवृत्ति तथा 'घ' को प्रवृत्ति के लिए 'स्थान–प्रयत्न' मिलाने का जो व्यायाम करना पड़ता है, उसकी तुलना में कातन्त्रीय विधान सरल तथा लाघव का बोधक कहा जा सकता है।
[विशेष वचन १. तिनिर्देश: स्वरूपग्राहक: (दु० टी०)
२. गव्यूति जङ्घन्यते। कुटिलं गच्छतीति गत्यात् कौटिल्ये एवेति यशब्द: (दु० टो०)।
३. वक्तव्यं व्याख्येयम्। हिनोत्यर्थे घिधातुरस्ति द्विवंचननिमिने हिनातेश्चाप्रयोगोऽभिधानादत्र (दु० टी०)।
४. इह हिनोत्यर्थे घिरिति धात्वन्तरमेवेति वेदितव्यम्, द्विवंचननिमिनप्रत्यये हिनोतेश्चाप्रयोगोऽनभिधानादिति (वि० प०)।