________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपादः
२७९
उल्लेख किया है, परन्तु पाणिनि ने 'ह' के बाद 'न्' को निमित्त माना है। इस प्रकार दोनों के तात्पर्य में समानता होने के कारण किसी में लाघव - गौरव नहीं कहा जा
सकता।
[विशेष वचन]
१. समुदायलोपेऽवयवस्यापि लोप इति चेत् तदा अलोपस्येति विदध्यात् (दु० टी०) ।
२. अथ समुदायस्य लोपेऽवयवस्यापि लोपः प्राप्नोतीति ? नैवम्, तदा 'लुप्तात : ' इति विदध्यात् (वि० प० ) ।
[रूपसिद्धि]
१. घ्नन्ति । हन् + अन्लुक् + अन्ति। 'हन् हिंसागत्योः' (२०४) धातु से वर्तमानाविभक्तिसंज्ञक परस्मैपद - प्र० पु० - ब० व० 'अन्ति' प्रत्यय "अन् विकरण: कर्तरि " ( ३।२।३२) से 'अन्' विकरण, "अदादेर्लुग् विकरणस्य" (३/४/९२) से उसका लुक्, “गमहनजनखनघसामुपधायाः स्वरादावनण्यगुणे" (३ । ६ । ४३) से 'हन्' धातु में उपधासंज्ञक अकार का लोप तथा प्रकृत सूत्र से हकार को घकार आदेश ।
२. आघ्नते । आ + न् + अन्ते । 'आङ्' उपसर्गपूर्वक 'हन् हिंसागत्योः' (२४) धातु से वर्तमानासंज्ञक आत्मनेपद - प्र० पु० - ब०व० 'अन्ते' प्रत्यय, अन् विकरण का लुक्, उपधालोप, प्रकृत सूत्र से हकार को घकार तथा 'अन्ते' प्रत्ययघटित नकार का लोप ।। ७०९ ।
७१०. अभ्यासाच्च [३। ६ । ३०]
[सूत्रार्थ]
अभ्यास से परवर्ती ‘हन्' धातु के हकार को घकार आदेश होता है ।। ७०१ । [दु० वृ० ]
हन्तेरभ्यासाच्च परस्य हस्य विर्भवति । जघान, जड्ङ्घन्यते, जिघांसति। हन्तेरभ्यासादिति किम् ? हननीयितुमिच्छति जिहननीयिषति । हेरचणीति वक्तव्यम् जिघीषति, प्रहायितुमिच्छति प्रजिघाययिषति । अचणीति वचनात् प्राजीहयत् ।। ७१० ।
[दु० टी०]
अभ्या० । हन्तेरभ्यासादिति । यद्यपि हन्तिना हकारो विशिष्यते तथापि श्रुतत्वादभ्यासोऽवयवोऽपि हन्तेरेव गृह्यते इति भाव: । जिहननीयिषतीति । हन्तेर्युट्, युडन्ताद् यिन्, यिनन्तात् सन्, सनन्तस्याभ्यासस्यावयवोऽयं कुतः प्रसङ्गः । अन्य आह- हन्तिनाभ्यासो विशिष्यते हन्तेरभ्यासादिति । इतर आह हन्तेस्तावद् द्विर्वचनम् एतद् यस्य च द्विर्वचनं तस्य द्विरुक्तस्य यः पूर्वः सोऽभ्यासस्तत्र । हन्तेरिति । तिनिर्देशः स्वरूपग्राहक
इति मनसि कृत्वाह हन्तेरभ्यासादिति । अपर आह यद्यपि चाभ्याससंज्ञायां
प्रत्ययस्याव्यापारस्तथापि योऽसौ द्विरुक्तपूर्वस्तं प्रत्यस्ति निमित्तभाव:, स चाभ्यास इति
-
-
-