________________
२७६
कातन्त्रव्याकरणम्
७०७. हन्तेस्त: [ ३ । ६ । २७]
[सूत्रार्थ]
'इन्' प्रत्यय के परे रहते 'हन्' धातु के अन्तिम नकार को तकार आदेश होता है।। ७०७।
[दु० वृ०]
हन्तेर्नकारस्य तादेशो भवति इनि परे । घातयति । पुनस्तग्रहणं गत्यर्थम्, तेन गां घातयति। गमयतीत्यर्थः ।। ७०७ ।
[दु० टी०]
हन्ते ० | ।०। एकवर्णत्वादन्तस्य नकारस्य भविष्यति, तिब्निर्देशः सुखार्थ एव । जंघानयतीति हेताविन्, चेक्रीयितलुगन्तस्य भाषायामप्रयोगात् । एवमुत्तरत्र सूत्रेऽपि !! ७०७ । [बि० टी० ]
हन्ते । पुनस्तग्रहणमिति । ननु तग्रहणं तथापि व्यर्धम्, तग्रहणाभावे यद्यगताविति प्रवर्त्तिष्यते, तदा एकयोगमेव कुर्यात् । तस्माद् भिन्नयोगसामर्थ्यंदेव न वर्त्तिष्यते इति चेत्, न। एकयोगे हि अगतावित्यनेन सह धातुना सम्बध्यते न शद्धातुना । सिद्धपक्षे तु शदधातोरेव सूचितत्वात् । अगतिग्रहणसामर्थ्यादेव शद्धातुना सम्बध्यते, एकयोगेन धातोर्गत्यर्थत्वात् तेनैव सम्बध्यते । तकारोऽयं सस्वरः कथं न स्यात्, अतोऽनेकवर्णः सर्वस्येति न्यायात् समुदायस्य भवति । नैवम्, परसूत्रे हन्तेर्हस्य घविधानात् । यदि समुदायस्य भविष्यति, तदा इनि परतो हन्धातोर्घकाराभावः ।। ७०७।
[समीक्षा]
'घातयति' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'हन्' धातु के अन्तिम 'न्' वर्ण को 'त' आदेश किया है। पाणिनि का सूत्र है “हनस्तोऽ— चिण्णलो " (अ० ७।३।३२ ) ।
[विशेष वचन ]
१. पुनस्तग्रहणं गत्यर्थम्, तेन 'गां' घातयति' । गमयतीत्यर्थः (दु० वृ० ) । २. तिब्निर्देश: सुखार्थ एव (दु० टी० ) ।
३. चेक्रीयितलुगन्तस्य भाषायामप्रयोगात् (दु० टी०)।
४. तकारोऽयं सस्वरः कथन्न स्यात् । अतः 'अनेकवर्ण: सर्वस्य' इति न्यायात् समुदायस्य भवति (वि० टी० ) ।
[रूपसिद्धि]
से
+
१. घातयति । हन् + इन् + अन् ति । 'हन् हिंसागत्योः ' (२।४) धातु “धातोश्च हेतौ’” (३।२।१० ) से 'इन्' प्रत्यय, प्रकृत सूत्र से नकार को तकार,
"हस्य