________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपादः
अदाङ्क्षीत्। अनिटामिति किम् ? त्वक्षू - अत्वक्षीत् । अपिपठिषीत् । व्यञ्जनान्तानां धातूनामस्येति धातुभिर्विशिष्यमाणस्याकारस्य दीर्घो न भवतीत्यर्थः । अथवा व्यञ्जनान्तानामितीह व्यञ्जनं जात्यर्थम्, तेन संयोगान्तस्यापि भवति । योगविभागः स्पष्टार्थ एव । अन्य आह–व्यञ्जनग्रहणसामर्थ्यात् पूर्वसूत्रे व्यञ्जनजातौ च स्थितायामुपधा न वर्तते, अस्य दीर्घो नामिनां च वृद्धिरिति प्रतिपद्यते । सूत्रस्यास्य प्रयोजनमाहव्यवस्थितवाधिकारमाश्रित्य व्यञ्जनादीनां सेटामनेदनुबन्धम्यन्तक्षणश्वसां वेति । 'आ’ इति सिद्धे दीर्घग्रहणं स्पष्टार्थम् ।। ६८८ ।
[वि० प० ]
अस्य०। पृथग्योगादिति । अन्यथा ‘व्यञ्जनान्तानामनिटामस्य च दीर्घः' इत्येकयोंगे कृते चकारेण नामिनां वृद्धिरनुकृष्यते । चानुकृष्टत्वान्नेदमुत्तरत्रानुवर्त्तिष्यते, किं तर्हि प्रधानत्वादस्येत्येतदेव तस्माद् योगविभागादिहोपधाभूतस्य सम्बन्धो नास्तीति । अनुपधाया अपि दीर्घो भवतीत्यर्थः ।। ६८८ ।
[समीक्षा] द्र० - उक्त सूत्र सं० [विशेष वचन ]
-
६८७
१. पृथग्योगाद् अभाङ्क्षीत् (दु० वृ०)।
२. पृथग्योगादिहोपधासन्बन्धो नास्तीति भाव: (दु० टी० ) । ३. योगविभागः स्पष्टार्थ एव (दु० टी० ) ।
४. 'आ' इति सिद्धे दीर्घग्रहणं स्पष्टार्थम् (दु० टी० ) ।
५. योगविभागादिहोपधाभूतस्य संबन्धो नास्ति (वि० प० ) ।
२४९
[रूपसिद्धि]
+
"
१. अपाक्षीत् । अट् + पच् सिच् + ईट् + दि । 'डु पचष् पाके' (१ । ६०३) धातु से अद्यतनीविभक्तिसंज्ञक परस्मैपद - प्रथमपुरुष - एकवचन 'दि' प्रत्यय, अड़ागम, सिच्, अनिट्, दीर्घ, ईट् आगम, "चवर्गस्य किरसवर्णे (३ । ६ । ५५) से च् को क्, “निमित्तात् प्रत्ययविकारागमस्थः सः पत्वम्” (३ | ८ | २६) से स् को ष्, 'क् – ब्' संयोग से 'क्ष' वर्ण।। ६८८ ।
६८९. वदव्रजरलन्तानाम् [३ । ६ । ९ ]
[सूत्रार्थ]
परस्मैपदनिमित्तक 'सिच्' प्रत्यय के परे रहते 'वद् में आकार को दीर्घ आदेश होता है ।। ६८८ ।
व्रज्' तथा रलन्त धातुओं
[दु० वृ०]
परस्मैपदं सिचि परतो वदिव्रज्यां रलन्तानां च धातूनामस्य च दीर्घो भवति । अवादीत्. अत्राजीत्, अचारीत्, अचालीत् । कथम अवभ्रीत्, अश्वल्लीत् । नाकारस्य