________________
२५०
कातन्त्रव्याकरणम्
रलन्ततेति। व्यञ्जनादीनां सेटाम् अनेदनुबन्धम्यन्तक्षणश्वसां वेति वक्तव्यम्- अरणीत्, अराणीत्। एदनुबन्धानां च, कग-अकगीत्। ग्रह–अग्रहीत्। टु वम्-अवमीत् । व्यय - अव्ययीत्। क्षण – अक्षणीत्। श्वस् अश्वसीत्। अनिटामिति नत्रा निर्दिष्टस्यानित्यत्वात्।। ६८९ ।
[दु० टी०]
वद०। अस्येति किम् ? न्यखेलोत्। कथमित्यादि। रश्च लश्च रलम, ततः समीपवचनेनान्तशब्देन समानाधिकरणेन समास:। रलं च तदन्नं चेति रलन्तम्, सामीप्यं पुनरकारस्यैव। अकारविशिष्टाभ्यां रेफलकाराभ्यां पश्चाद् धातुसम्बन्धेन तदन्तविधिः। अत: समीपरेफलकारान्तस्य धातोरित्यकारस्य श्रुतत्वादकार एव दीर्घभाग् निर्दिष्टो वेदितव्यः। अथवा रलं च तदन्तं चेति कस्येति न तावदपेक्षते, यावद् रेफलकाराभ्यां धातोस्तदन्तविधिरासक्त इति, ततस्तेन विशिष्टेन धातुनाऽकारोऽभिसंबध्यते, रलन्तस्य धातोर्दी? भवति। कस्य पुनरसौ रेफो लकारश्च समीप इत्यकारस्य दीर्घभाक्त्वेन श्रुतत्वादन्यस्य चासन्निधेः। युक्तं यत् तेनैव सम्बन्ध: स्यात्। इह मा भूद् अबभ्रीत्, अश्वल्लीत्। अत्र हि योऽकारस्तत्समीपे यो रेफलकारौ न तदन्तो धातुरिति, रलन्तश्च धातुर्न तावद् अकारस्य समीप इति न भवति यदि पुनरिह रलजाति श्रीयते।
अनेकवर्णव्यवधानादेव न भविष्यति उपधाग्रहणं वाऽनुवर्तते, तदान्तग्रहणं स्पष्टार्थम्। सेट्त्वादयमारम्भः। व्यञ्जनादीनामित्यादि। तथा गौरिवाचारीद् अगवीत्, अगावीत्। अवादेशे वा दीर्घो भवति, गुरोरस्यानेकवर्णव्यवधानादेव न भविष्यति 'अतक्षीत्'। एतत्तु न वक्तव्यमित्याह - अनिटामित्यादि। नत्रा निर्दिष्टमनित्यमिति सेटोऽपि ग्रहणम् पक्षे भवतीति भावः। केचिद् दीर्घस्य भावम्, केचिद् अभावमिच्छन्ति। तदुभयमतं प्रमाणीकृत्यापरैर्विभाषा कृता। सूत्रकारमते तु दीर्घमप्रमाणमितीव लक्ष्यते। केचिद् हकारमकारयकारान्तक्षणश्वसां चेक्रीयितलुगन्तानां प्रतिषेधमाहुः। अजाग्रहीत्, अवंवमीत्, अवाव्ययीत्, अचाक्षणीत्, अशाश्वसीत्। एकारानुबन्धानां प्रतिषेधः -- 'हसे हसने' (१। २३५) अजाहासीत्। अत एव हम्यन्तादयोऽनेदनुबन्धाः क्रियन्ते।। ६८९।।
[वि० प०]
वद० । सेडर्थमिदम्। इहापि "इटश्चेटि" (३। ६। ५३) इति सिचो लोपः। कथमित्यादि। 'अभ्र-वभ्र-मभ्र' (१। १८९) इत्यादि दण्डको धातुः। 'श्वल श्वल्ल 'आशु गतौ' (१ । १८४)। अयमपि लकारान्तो धातुरिति प्राप्नोतीति परिहारमाह-नाकारस्येति। रलन्ततेति। रश्च लश्च रलमिति समाहारद्वन्द्वः, ततोऽन्तशब्देन सामीप्यार्थेन कर्मधारयः। रलं च तदन्तं चेति रलन्तम्। सामीप्यं पुना रेफलकारयोरधिकृतं कार्यिणमकारमपेक्ष्य वेदितव्यम्, नतोऽकारसमीपाभ्यां रेफलकाराभ्यां धातोस्तदन्तविधिरिति अकारसमीपो यौ रेफलकारौ तदन्तस्य धातोरिति। अत्र पुनरकारस्य रलन्तता नास्तीति रेफलकारयोः समीपत्वं नास्तीत्यर्थ:। एकत्र भकारेण व्यवहितत्वादन्यत्र यस्य समीपो लकार:, नासो लकारो धातो रन्तः, यश्च धातोरन्तो नासो अकारस्य