________________
कातन्त्रव्याकरणम्
व्यञ्जनान्तलक्षणयैव वृद्ध्याभिसम्बन्धादिति । एवन्तर्हि नेटीति प्रतिषेध: पृथगेव क्रियतामिति। इटि सति व्यञ्जनान्तस्य च वृद्धिर्न भविष्यति । तेनान्तस्यानन्तस्य च प्राप्ता वृद्धिः सर्वत्रैव प्रतिषिध्यते इत्याह-अर्थादित्यादि । उपदेशार्थ: पाठ उच्यते । तत्र यो धातुः स्वरान्तस्तदर्थमित्यर्थः ।
२४६
न चैतद् ‘औपदेशिकप्रायोगिकयोरौपदेशिकस्यैव ग्रहणम्' (का० परि० ४२ ) इति निर्वोढुं पार्यते, स्वरान्तग्रहणमन्तरेण धातोर्भविष्यति । स चौपदेशिक एवेति । उपपूर्वो वह प्रापणे, अद्यतन्या द्विवचनम् - ताम्, धातोरादेरट्, सिच् " धुटश्च धुटि" (३।६। ५१) इति सिचो लोप:, अस्य च दीर्घः, "सहिवहोरोदवर्णस्य" (३ । ८ । ७) इत्यात्त्वे, "हो ढ:” (३ । ६ । ५६) इति हस्य ढत्वे कृते तस्य धत्वे, तवर्गस्य षाट्टवर्गाट्टवर्गत्वे, "ढे ढलोपो दीर्घश्चोपधायाः " (३ । ८ । ६) इति कृते च सति लाक्षणिकोऽयमकारः स्वरः इति प्रत्ययलोपलक्षणेऽपि सिचि कार्यं न भवतीत्यर्थः । नवावेति । नु स्तुतौ, पञ्चम्या आव, अदादित्वाद् विकरणस्य लुक् गुणावादेशौ, “ऊर्णोतेर्वा” (३ | ६ | ८५) इति मतान्तरमावेदितमिह पूर्ववृद्धिरेव प्रमाणमित्यर्थः । स्वरादीनां वृद्धिरित्यौकार: ।। ६८६ ।
[बि० टी० ]
सिचि॰। अर्थात् स्वरान्तग्रहणम् उपदेशार्थमिति वृत्तिः । ननु कथमिदमुक्तं यावता ‘‘अस्योपधाया:’” (३ । ६ । ५) इत्यतोऽनन्तरत्वाद् उप दीर्घानुवृत्तौ स्वरान्तग्रहणसामर्थ्यांन्न वर्तते इत्युक्तत्वात्। तथा च पञ्जी -नामिनां वृद्धिरित्येव वर्तते स्वरान्तानामुपधाया अभावादिति, सत्यम्। अयमेवाशयः– उपधादीर्घस्यानुवृत्तिरर्थान्न भविष्यतीति हृदयम् । तथाहि अकारादिधातोरद्यतन्यामवर्णस्याकारः प्रवर्तते । अस्योपधायाः पुनरनिटामित्यस्य च दीर्घ एवास्ति, सेटां व्यञ्जनादीनामिति विकल्पवलाद् दीर्घ इति तद्भिन्नविषय एव नास्ति, हिं एदनुबन्धादीनां नित्यं भवतु ? सत्यम् । अस्य च दीर्घ इत्यस्य व्यावृत्त्या न भविष्यति । अन्यथा अनिटि दीर्घे व्यावृत्तेरयोगाद् इत्याह अर्थात् स्वरान्तग्रहणमित्यादि । । ६८६ ।
-
[समीक्षा]
'अलावीत्, अरावीत्, अचैषीत् अनैषीत् इत्यादि शब्दरूपों में धात्वन्तवर्ती इवर्ण-उवर्ण-ॠवर्ण को वृद्धि का विधान दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है- "सिचि वृद्धिः परस्मैपदेषु " (अ० । २१) । ऋवर्ण के स्थान में पाणिनि के अनुसार 'आ' वृद्धि होने पर "उरण् रपरः " (अ० ११.१ । ५१ ) से रपर भी करना पड़ता है, जब कि कातन्त्रकार 'आर्' की ही वृद्धिसंज्ञा करते हैं।
[रूपसिद्धि]
+
१. अरावीत्। अट् + रु + सिच् + अद्यतनी दि । रु शब्दे (२/१०) धातु से अद्यतनीसंज्ञक प्रथमपुरुष एकवचन दि' प्रत्यय, "अड् धात्वादिह्यंस्तन्यद्यतनीक्रियातिपत्तिषु” (३ । ८ । १६ ) से धातुपूर्व अडागम, "सिजद्यतन्याम्” (३ । २ । २४) से 'सिच्' प्रत्यय, इडागम, प्रकृत सूत्र से धान्वन्तवर्ती 'उ' को वृद्धि औ, "सिचः "
-