________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपादः
२४५ नहि स्वरान्तस्य धातोरुपधा अकारः सम्भवति। अन्तरङ्गस्यापि येन नाप्राप्तिन्यायन गुणबाधिका वृद्धिरिति, तर्हि नाम्यधिकारेण किम् ? अचिकीर्षीदिति। परत्वादस्य च लोपो भविष्यति। अयासीदिति। “यमिरमिनम्यादन्तानां सिरन्तश्च' (३। ७ । १०) इति कृते कुत: एकदंशकण्ठ्यमाश्रित्य वृद्धि : (आर) प्रसज्येतेति । सत्यम्, अमुमेव पक्षमाश्रित्य नामिन एवाच्यते, तर्हि स्वरग्रहणं किमर्थम्, इह व्यञ्जनान्तस्य मा भूत् – अभेत्सीदिति। व्यञ्जनान्तलक्षणा वृद्धि: सामान्यविशेषभावेन बाधिका भविष्यति, 'स्थानेऽन्तरतमः' (का० परि० १६) इति न्यायाच्च न भविष्यति, तर्हि अकार्षीदित्यत्र मूर्धन्यस्य षकारस्य प्रसज्येत। अनिटामिति प्रतिषेधस्य श्रुतया वृद्ध्या अभिसम्बन्धात्। अथ नेटीति प्रतिषेधो योगः पृथक् क्रियते, स च सामान्येन विज्ञास्यते इति मनसि कृत्वाह – अर्थादिति। स्वरग्रहणेन विनाऽन्तग्रहणेन त नेतदपपद्यते। ___ 'उद्, वह, सिच्, ताम्' इति स्थिते प्रकृतिविभागे "हो ढः" (३।६। ५६) इति ढत्वे सति “सहिवहोरोदवर्णस्य" (३। ८। ७) इति प्रत्ययलोपे प्रत्ययलक्षणमिति सिज्लोपेऽपि वृद्धि : प्राप्नोति, तथा गौरिवाचारीत् – अगावीत् । व्यक्तिवादी तु नाम्यधिकारमिच्छति विधानादस्य च लोपं बाधित्वा वृद्धिरेव प्राप्नोति। ननु 'न्यनुवीत्, न्यधुवीत्' इत्यन्तरङ्गत्वादुवादेशे सति "व्यञ्जनान्तानामनिटाम्" (३। ६।७) इति वृद्धिप्रतिषेधो भविष्यति, किं “सिजाशिषोश्चात्मने” (३। ५। १०) इत्यात्मनेपदग्रहणं गुणबाधिका वृद्धिरिति ज्ञापनार्थमित्युक्तेन ? सत्यम्, गुणं यथा बाधते, तथा उवादेशमपि कथं न बाधेत ? किञ्च ‘आदीध्यकः, आवेव्यकः' इत्यगुणविषयत्वाद् वृद्धिरपि न भवति, यतः स्वरान्तानां धातूनाम् अस्योपधाया दीर्घो भवति नामिनां च वृद्धिरिति वचनाद् गुणे सति अयवादेशयोः कृतयोरस्य दीर्घता, तदा 'चिरि जिरि हिंसायाम्' (४।१७), 'अचिरायीत्, अजिरायीत्' इति यकारान्तलक्षण: प्रतिषेधः स्यात्। अथ श्वयते: पुनर्गुणवचनं गुणरूपावधारणार्थम्। तज्ज्ञापयति-गणे कृते यकारान्तप्रतिषेधो नास्ति, तदसत्। चिरिजिर्यो - - -त्यादिवविशिष्टविषयः प्रयोगोऽत्र नास्तीति स्मृतिशास्त्रत्वात् श्वयतिग्रहणमनर्थकमेव स्यादित्ययमेव पक्षः शिष्टसम्मतः इत्यर्थः।। ६८६।
[वि० प०]
सिचि। यद्यपि पूर्वसूत्रत्वात् “अस्योपधाया दी| नामिनां च वृद्धिः” (३।६। ५) इति द्वयमनन्तरम् , तथापि नामिनां वृद्धिरित्यवानुवर्तते स्वरान्तानां धातूनामकारस्योपधाभूतस्याभावादित्याह-नामिन एवेति। अरावीदित्यादि। आद्ययोरुदाहरणयो: “इटश्चेटि" (३।६। ५३) इति सिचो लोपः। सर्वत्र “सिच:" (३। ६ । ९०) इतीट। अथ स्वरान्तग्रहणं किमर्थम् ‘अभैत्सीत्' इत्यत्र व्यञ्जनान्तस्य मा भूदिति चेत्, न। व्यञ्जनान्तानामनिटाम् इत्यस्य बाधकत्वात्। न च वक्तव्यम्-व्यञ्जनान्तलक्षणा वृद्धिरुपधाया भवति, कथमन्त्यवर्णविषयां वृद्धिं बाधते भिन्नविषयत्वादिति। यतो धातुसामान्यविशेषभावेन बाधकत्वं भविष्यति, किञ्च आन्तरतम्याभावाच्च न भविष्यति। अथ 'अकोषीत्' इत्यत्र मूर्धन्यषकारस्यैकदेशेनान्तरतमत्वाद् आय् स्यादिति। अनिटामिति प्रतिषेधस्य श्रुतत्वाद्