________________
तृतीये आख्याताध्याये पञ्चमो गुणपादः
२२९ [दु० वृ०] ह्रस्व इकारोऽभ्यासस्येह। तिष्ठतेरुपधाया इद् भवति इनि चण्परे। अतिष्ठिपत्।। ६७९ । [दु० टी०]
तिष्ठ० । तकार उच्चारणार्थ एव। ह्रस्व इत्यादि। ह्रस्वापवादोऽयं योगः। द्विवचनस्य च भावित्वाद् ईकारोऽपि न सम्बध्यते इत्यर्थः। अथ "मान्वध्दान्शान्भ्यो दीर्घश्चाभ्यासस्य" (३।२।३) यथा भवति वचनात् तथात्रापीति। तदसत्, “ईच्चाभ्यासस्य" इति प्राक् चरितार्थत्वात् 'अधिकाराणां च प्रवृत्तिनिवृत्ती इष्टतः' इति भावः। तिनिर्देश: पाठसुखार्थः। अन्य आह – चेक्रीयितलुनिवृत्त्यर्थम्, ‘अतस्थेपत्' इति च न भाषायां दृश्यते।। ६७९ ।
[वि० प०]
तिष्ठतेः। ह्रस्व इत्यादि। एतेन एकगणत्वाद् “इच्चाभ्यासस्य" इत्यादि नाधिक्रियते अनिष्टत्वादिति दर्शितम्, “अर्तिह्री०” (३।६। २२) इत्यादिना पकारागमः।। ६७९ ।
।। इति श्रीमत्रिलोचनदासकृतायां कातन्त्रवृत्तिपञ्जिकायां तृतीये
आख्याताध्याये पञ्चमो गुणपादः समाप्तः।।
[समीक्षा]
'अतिष्ठिपत्' शब्दरूप के सिद्धयर्थ दोनों ही व्याकरणों में समान सूत्र द्वारा आकार को इकारादेश किया गया है। पाणिनि का सूत्र है - "तिष्ठतेरित्'' (अ० ७। ४। ५)। अत: उभयत्र समानता है।
[विशेष वचन] १. तकार उच्चारणार्थ एव (दु० टी०)। २. अधिकाराणां प्रवृत्तिनिवृत्ती इष्टत: इति भाव (दु० टी०)। ३. तिनिर्देश: पाठसुखार्थः। अन्य आह–चेक्रीयितलुनिवृत्त्यर्थम् (दु० टी०)। [रूपसिद्धि]
१. अतिष्ठिपत्। अट् + स्था + इन् + चण् + दि। 'ष्ठा गतिनिवृत्तौ' (१।२६७) धातु से 'इन्' प्रत्यय, “अर्तिह्रीब्लीरीक्नूयीक्ष्माय्यादन्तानामन्तः पो यलोपो गुणश्च नामिनाम्'' (३।६।२२) से पकारागम, धातुसंज्ञा, अद्यतनीसंज्ञक 'दि' प्रत्यय, अडागम, चण्, प्रकृत सूत्र से आकार को इकार, द्विर्वचनादि, इन्लोप, सकार को षकार तथा थकार को ठकारादेश।। ६७९।
६८०. जिघ्रतेर्वा [३। ५। ४८] [सूत्रार्थ]
चण्परवर्ती ‘इन्' प्रत्यय के परे रहते 'ब्रा' धातु की उपधा को वैकल्पिक इकारादेश प्रवृत्त होता है।। ६८० ।