________________
तृतीये आख्याताध्याये पञ्चमो गुणपाद:
२२३ वस्तुतस्तु एवं युज्यते पञ्जी - द्विवंचने कृते पश्चादपधालोपः। नन् कथमादौ द्विर्वचनम् पश्चादुपधालोप एव प्राप्नोति ? तत्राह -- स्वरविधित्वाद् द्विर्वचनमेव प्राक्। एतदुक्तं भवति द्विवचनमेव प्राप्नोति स्वरत्वाभावादत्रादौ द्विवचनम्, द्विर्वचनस्य स्वरत्वात् स्वरस्य सत्तायामेव द्विर्वचनमिति भावः। एतेन ओणेर्ऋदनुबन्धस्य ज्ञापकं सर्वोद्दिष्टमिति दूषणम्। ननु तथापि कथमिदमुच्यते ह्रस्वस्य पश्चाद्भवेन पूर्वभवेन वा य: साध्यस्तस्य क्षतिर्न स्यात्, किमनेन यत्नेन, नैवम् । प्राग् द्विवचने पश्चाद् ह्रस्वे स्थानिवद्भावादाकारस्य लघूपधत्वाभावे सन्वद्भावो न स्यात्। यदि च प्राग ह्रस्वस्तदा “योऽनादिष्टाद" (का० परि० ११) इत्यनेन स्थानिवद्भावो न स्यात्, अनादिष्टादभ्यासत्वे परत्वात्। पूर्वस्मिन् काले यः स्वरविधिस्तं प्रति न स्थानिवत् परस्मिन् यो विधिस्तत: स्थानिवद्भावो भवत्येव। ननु कथम् अपीपटत्, ओत: स्थानिवद्भावात् । यथा 'अजुगोनत्' इति, न च वक्तव्यमेव "अस्योपधायाः" (३। ६। ५) इत्यत्र नामिग्रहणं लिङ्गार्थम्, तद्बलान्न स्थानिवद्भावः। अलीलवद् इति तस्य कृतार्थत्वात् ? सत्यम्, यस्य मतेऽनेकवर्णव्यवधानेऽपि स्यात्, तन्मतमवलम्ब्योदाहरणम्।। ६७६।
[समीक्षा]
'अचीकरत्, अलीलवत्' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में ह्रस्वादेश किया गया है। पाणिनीय 'णिच्' के लिए कातन्त्रकार ने 'इन्' प्रत्यय तथा पाणिनीय ‘चङ्' के लिए कातन्त्रकार ने 'चण्' प्रत्यय किया है। तदनुसार ही उभयत्र शब्दभेद है। पाणिनि का सूत्र है - "णौ चड्यपधाया ह्रस्व:' (अ० ७।४।१)। यह ज्ञातव्य है कि 'णिच्–इन्' में केवल 'इ' तथा 'चङ्-चण्' में केवल 'अ' शेष रह जाता है, अन्य वर्ण अनुबन्ध हैं। इस प्रकार उभयत्र प्राय: समानता है।
[विशेष वचन] १. इन्ग्रहणम् इन्सामान्यार्थम् (दु० वृ०; वि० प०)। २. उभयसम्भवे विशेषणविशेष्यभावं प्रति कामचार: (टु० टी०)। ३. उत्तरार्थ क्रियमाणमिहापि सुखप्रतिपत्त्यर्थमुपधाग्रहणमिति (टु० टी०; वि० प०)।
४. समुदायस्य तात्पर्येण निवृत्ती व्याख्यायमानायां समुदाय एव निवर्तते नावयवः (दु० टी०)।
५. एकेन वर्णेन व्यवधानमाश्रीयते न त्वनेकेन (वि० प०)। ६. नित्यमपि द्विर्वचनं ह्रस्वत्वेन बाध्यते (बि० टी०)।
७. जपाकुसुमसन्निधाने काचादेरिवात्रापि चण्सन्निधानादिनोऽपि चण्त्वम् उपचरितम्, तद्गुणाध्यारोपात् (बि० टी०)।
[रूपसिद्धि]
१. अचीकरत् । अट् + कृ + इन् = कारि + चण् + दि। 'कुर्वन्तं प्रायुक्त' इस अर्थ में 'डु कृञ् करणे' (७। ७) धातु से अद्यतनीसंज्ञक प्रथमपुरुष–एकवचन 'दि' प्रत्यय,