________________
२२२
कातन्त्रव्याकरणम् नन ओणेदनबन्धो ज्ञापयति – नित्यमपि द्विर्वचनं ह्रस्वत्वेन बाध्यते इति "न शासवृदनुबन्धानाम्' (३।५।४५) इति सूत्रे ज्ञापयितव्यम्, ततस्तेन न्यायेन सिद्ध कथं परत्वादित्युक्तम् ? न देश्यम्, ओण्धातोस्तावत् स्वरादित्वाद् दृष्टान्तानुवृत्तिकतया स्वरादिधातोरेव ज्ञाप्यते न व्यञ्जनादिधातोरिति हेमकरः। नन 'स्वरविधि: स्वरे' इत्यादिना द्विर्वचनमादौ पश्चात् स्वरविधिर्भविष्यति। कथमुक्तं परत्वम्, तदयुक्तम्। यत्र हि द्विवचनं नोक्तम्, यत्र आयौ कृते स्वरविधौ द्विवचनं न प्राप्नोति तत्रैवेयं परिभाषा। यथा 'निनाय' इत्यादौ वृद्धौ कृतायां सत्यां नायभागस्य द्विवचनम्। आदौ नीशब्दस्य द्विवंचने कृते सति निनाय' इति न सिध्यति, अतस्तत्रैवयं परिभाषा। एवं चक्रतुरित्यादौ रेफे कृते पश्चाद् द्विवचनम् एकस्वरत्वविरहादसिद्धम् । आदौ द्विवंचने कृते सिध्यत्येव, अत एवात्र प्रवर्तते। अचीकरदित्यादौ ह्रस्वे कृते इनि यत्र कृतं तत् सर्व स्थानिवदिति न्यायात् कृशब्दस्य द्विवचनम्, अकृते ह्रस्वेऽपि कृशब्दस्य, ततोऽत्र न तस्यावसर इति हेमकरेणोक्तम् ।
ननु यदि तस्यानवसरस्तदा कथम् 'अतिष्ठिपत्, अजिघ्रिपत्' इत्यत्र इनि कृतस्य स्थानिवद्भावात् कृतेऽपीत्त्वे स्थाशब्दस्य द्विवचनम्, अकृतेऽपि तदेव इनि कृतस्य स्थानिवद्भावात्। तन्न, इनि चणि निमित्त कृतस्येत्त्वस्य कथं स्थानिवद्भाव:। किञ्च एतज्ज्ञापकम् अजान्तस्थापवर्गपरस्यावर्णे इत्युक्तम्, ततः कृते इत्त्वेऽवर्णाभावात् कथं स्थानिवद्भावः । अत्र हेमकरस्य पक्षपातो भवतीति कृत्वा हेमकरस्य पक्षं जना वदन्ति। 'स्वरविधिः स्वरे' इत्यादौ द्विवंचने कृते पश्चात् “तिष्ठतेरित्" (३। ५ । ४७) इत्यनेन इकारे कृते सन्वद्भावे सतीत्त्वं स्यादेव। अत: 'अतिष्ठिपत्' इत्यादि सिद्धम्, तदप्यसङ्गतम्। आदो द्विवंचने पश्चादित्त्वे सति सन्वभावा न स्याद् यानादिष्टात् स्वरात् इत्यादिना स्थानिवद्भावाद् आकारस्य ततो लघुधात्वक्षरत्वाभावात् कथं स्यात् ? अत्र सर्वे हेमकरपक्षां महतीं लज्जां प्रापुः, तं प्रति विशेषोऽप्युक्तो हेमकरेण कथमयं सिद्धान्तो दत्त इति कृत्वा पण्डितस्त्वयमेवमाह - अचोकरद् इत्यादौ 'स्वरविधि: स्वरे' इत्यस्यावतारो नास्त्येव, तस्यार्थाज्ञानात्। तथाहि तत्र स्वरे स्वरादो प्रत्यये किंविशिष्टे द्विर्वचननिमित्ते द्विवंचने कृते पश्चात् स्वरविधिरिति । यस्मिन् प्रत्यये द्विवचनं श्रुतत्वात् तस्मिन्नेव प्रत्यये यत्र विधिस्तत्र कृते द्विवचने पश्चात् स्वरविधिस्तत्र द्विवचनस्य निमित्तं चण्, स्वरविधेनिमित्तम् इन्, चणि कथमस्यावतारः। ननु यदि श्रुतव्याख्याश्रिता तर्हि कथम् अपीप्यद् इत्यत्र द्विर्वचनं चणि परत: इहाभ्यासलोपश्च इनि चणि निमित्ते तस्मादादो लोप: स्यात्, कृते लोपे एकस्वरसहितव्यञ्जनत्वाभावाद् द्विवचनमेव न प्राप्नोति ? सत्यम् , अत्राभ्यासग्रहणादादो द्विर्वचनं न स्वरविधिः। तर्हि कथं द्विवंचने कृते पश्चात् उपधाभूतस्याकारस्य लाप: स्वरविधित्वादित्युक्तम। "लोप: पिबेतरीच्चाभ्यासस्य" (३।५ । ४६) इत्यत्र पञ्जिकायां 'स्वरविधि: स्वरे' इत्यनर्थकम् अभ्यासग्रहणसामथ्यादेव युज्यते वक्तुम् ? सत्यम्, जवाकुसुमसन्निधाने काचादेरिवात्रापि चण्सन्निधानादिनोऽपि चण्त्वमुपचरितम्, तद्गुणाध्यारोपात्। न च वाच्यं तद्गुणाध्यारोपेऽन्यत्रापि स्यात् । ईच्चाभ्यासग्रहणादुपचरितम्, अन्यथा सन्न स्यात्। अन्यत्र कथमिति केचिदाचक्षते। अन्य आह - अभ्यासग्रहणसामर्थ्यादत्र प्रवर्तते स्वरविधि: स्वरे इति।