________________
कातन्त्रव्याकरणम् सूत्रेण पूर्ववर्तिनोऽकारस्य स्थानेऽरादेशः परवर्तिन: ऋकारस्य च लोपो विधीयते । परमत्र पाणिनिः “एक: पूर्वपरयोः'' (अ०६।११७५) इत्यधिकारे, “आद् गुणः'' (अ०६।१८७) इत्यनेन अकार-ऋकारयोः स्थाने अकारादेशम् , "उरण रपर:'' (अ० १।१।२१) इत्यनेन रपरत्वं च विदधाति । एतेन कातन्त्रे उत्कर्षः पाणिनीये चापकर्ष: स्पष्टं प्रतीयते ।।
तृतीये परिशिष्टे दुर्गवृत्तिनिर्दिष्टानां समीक्षांशे मया साधितानां ११३० शब्दरूपाणाम्, चतुर्थे परिशिष्टे चतसृषु व्याख्यासु समुद्धृतानां ३७ श्लोकवचनानां श्लोकांशानां च, पञ्चमे परिशिष्टे व्युत्पादितानां १२७ शब्दानाम् , षष्ठे परिशिष्टे विविधप्रयोजन-अर्थाद्यवबोधकानां १०२५ विशिष्टशब्दानाम् , सप्तमे परिशिष्टे ५२ समुद्धृतग्रन्थानाम् , अष्टमे परिशिष्टे ७१ स्मृतग्रन्थकाराणाम् , नवमे परिशिष्टे च २६ साङ्केतिक-पूर्णशब्दरूपाणां वर्णानुक्रमेण सूची प्रस्तुता वर्तते ।
__एवं १९६८ तमाशवी यवत्सरान्मया यद् यावच्च कातन्त्रमधीतम् , तदधिकृत्य सम्प्राप्तानुभवबलेन संक्षिप्ता सम्पादनयोजना २।२।१९९० तमे दिनाङ्के सम्पूर्णानन्दसंस्कृतविश्वविद्यालयीयप्रकाशनविभागे संप्रस्तुता, तस्याः स्पष्टीकरणं च विस्तरेणानुष्ठितं २०।६।९४ तमदिनाङ्कितपत्रेण । तदनुसारं सूत्र-सूत्रार्थप्रदर्शनपुरस्सरमाचार्यदुर्गसिंहविरचिताया: कातन्त्रवृत्तेः, कातन्त्रवृत्तिटीकाया:, त्रिलोचनदासस्य कातन्त्रवृत्तिपञ्जिकाया:, सुषेणविद्याभूषणस्य कलापचन्द्रस्य च सम्पादनमायोजितमासीत् । अत्रापि चानिवार्य महत्त्वपूर्णमासीद हिन्दीभाषायां व्याख्याचतुष्टयस्यास्य विषयाणां वैशिष्ट्यप्रदर्शनं पाणिनीयेन व्याकरणेन सह समीक्षाकार्य च । परं कार्यमिदं दुरूहं समयसाध्यं चासीत् , तथापि पाणिनीयवाङ्मये महाभाष्यकाशिकावृत्ति-न्यास-पदमञ्जरीणामनुशीलनानुभवबलेन तादृशस्य 'दुर्गवृत्ति-टीका-पञ्जिकाकलापचन्द्र' इत्येतस्य व्याख्याचतुष्टयस्याध्ययनादिबलेन च सोत्साहमहं कार्यमिदं संपूरयितुं संकल्पितवान् । कार्यस्य गौरवम्पयोगितां व्यापकतां चाकलयन्ती प्रकाशनसमिति: १९९६ तमे यीशवीयवत्सरे मामकीनां यां योजनामङ्गीचकार, तस्यास्तृतीयभागस्य द्वितीयं खण्डमिदं वर्तते । आचार्यशर्ववर्मणा सन्धि-नामचतुष्टय-आख्याताख्येषु त्रिष्वध्यायेषु एकोनविंशतिपादेषु च ८५५ सूत्राणि यानि प्रणीतानि, तानीह परिसमाप्यन्ते । अत्रादिमङ्गलं “सिद्धो वर्णसमाम्नायः" (१।१।१) इतिसूत्रस्थसिद्धपदेन, मध्यमङ्गलम् “अथ परस्मैपदानि नव" (३१।१) इतिसूत्रस्थाथपदेन, अन्त्यमङ्गलं च "आरुत्तरे च वृद्धिः'' (३।८।३५) इतिसूत्रस्थवृद्धिपदेनाचरितम् । अतः परं चतर्थाध्यायात्मकमाचार्यवररुचिप्रणीतं कृत्प्रकरणमपि शीघ्रमेव पाठकानां विदुषां करतलगतं भविष्यतीत्याशासे ।
कृतज्ञताप्रकाशः
विदुषामिदं सुविदितमेव यत् कातन्त्रव्याकरणमधिकृत्यान्वेषणकार्यस्य प्रवर्तनाय प्रेरणासूत्राण्यासन् आचार्यबलदेवोपाध्याय-रामशङ्करभट्टाचार्य-क्षेत्रेशचन्द्रचट्टोपाध्याय