________________
भूमिका
१३
गौरवम्, ४३ सूत्रेषु उत्कर्ष:, एकस्मिन् सूत्रेऽपकर्षः, २८ सूत्रेषु अन्वर्थता, सप्तसूत्रेषु च सरलता वर्तते । कातन्त्रापेक्षया पाणिनीयेषु ६० सूत्रेषु लाघवम्, २३२ सूत्रेषु गौरवम्, त्रिषु सूत्रेषूत्कर्ष:, ३७ सूत्रेष्वपकर्ष:, २९ सूत्रेषु कृत्रिमता, अष्टसूत्रेषु दुरूहता च संनिहिताऽवगन्तव्या। सारण्यामेषा समीक्षा एवं द्रष्टव्या
समीक्षापक्षाः
साम्यम्
लाघवम्
गौरवम्
उत्कर्षः
अपकर्षः
अन्वर्थता
कृत्रिमता
सरलता
-
समीक्षासारणी
कतन्त्रीये
४३९ सूत्रेषु
२७१ सूत्रेषु
२१ सूत्रेषु
४३ सूत्रेषु
१ सूत्रे
२८ सूत्रेषु
७ सूत्रेषु
दुरूहता
निदर्शनार्थं द्वित्राः समीक्षा अत्र प्रस्तूयन्ते
पाणिनीये
४३९ सूत्रेषु
६० सूत्रेषु
२३२ सूत्रेषु
३ सूत्रेषु
३७ सूत्रेषु
X
२९ सूत्रेषु
८ सूत्रेषु
१. साम्यम्
‘अभवत् · अभूत्, अभविष्यत् ' इत्यादौ धातोः पूर्वम् अडागमः कातन्त्रे पाणिनीये चोभयत्र विधीयते
कातन्त्रसूत्रम् - अड् धात्वादिर्ह्यस्तन्यद्यतनीक्रियातिपत्तिषु (३।८।१६) । पाणिनीयसूत्रम् - लुङ्लङ्लृङ्क्ष्वडुदात्त: (अ० ६ । ४ । ७१) ।
२. लाघवं गौरवं च
J
'अट्-अत्' प्रभृतिधातुभ्यः 'आटीत् आतीत् ' इत्यादिशब्दरूपाणां सिद्ध्यर्थं कातन्त्रकारेण “अवर्णस्याकारः” (३।८।१८) सूत्रेण अकारस्याकारादेशं विधाय लाघवमाद्रियते । पाणिनिश्चैतदर्थम् “आडजादीनाम्" (अ० ६।४।७२ ) इत्यनेन आडागमम् "आटश्च” (अ० ६।१।९०) इत्यनेन वृद्ध्यादेशं विधाय गौरवमातनोति ।
३. उत्कर्षापकर्षो
'कृष्णर्द्धिः' इत्यादिप्रयोगसिद्ध्यर्थं कातन्त्रे "ऋवर्णे अर्” (१।२।४) इत्यनेन