________________
तृतीये आख्याताध्याये पञ्चमो गुणपादः
२१५
(अ० ७। १। ३४)। कातन्त्रकार अट् प्रत्यय मानते हैं। अत: उन्होंने प्रकृत सूत्र में उसका पाठ किया है। इस प्रकार पाणिनि ने 'तिप्' को 'णल्' तथा उसको 'औ' आदेश करके गौरव उपस्थित किया है, जब कि कातन्त्रकार ने 'अट्' प्रत्यय को औकार आदेश करके लाघव का परिचय दिया है।
[विशेष वचन ]
१. णकारोऽगुणार्थ: (दु० वृ०)।
२. वक्तव्यमिति मतान्तरमुक्तम्, अस्य तु मते दर्शनम् – अव्यया एवंभूता इति (वि० प० ) ।
३. अत्र च गुरुकरणस्याभावो लाघवम् ( बि० टी० ) ।
४. स्वरविधौ न सन्धिलक्षणमुपतिष्ठते (बि० टी० ) ।
[रूपसिद्धि]
१. पपौ । पा + अट् औ। 'पा पाने' (१। २६४) धातु से परोक्षाविभक्तिसंज्ञक प्रथमपुरुष एकवचन ‘अट्’ प्रत्यय, "चण्परोक्षाचेक्रीयितसनन्तेषु” (३ । ३ । ७) से 'पा' धातु को द्विर्वचन, “पूर्वोऽभ्यासः” (३ । ३ । ७) से पूर्ववर्ती 'वा' की अभ्याससंज्ञा, “ह्रस्वः” (३। ३। १५) से उसको ह्रस्व, प्रकृत सूत्र से 'अट्' को औ आदेश तथा "ओकारे औ औकारे च” (१ । २ । ७) से आकार को औकार - औकारलोप ।
२. तस्थौ । स्था + अट् औ। 'ष्ठा गतिनिवृत्तौ' (१ । २६७) धातु से परोक्षासंज्ञक ‘अट्’ प्रत्यय, द्वित्वादि कार्य, प्रकृत सूत्र से 'अट्' को 'औ' आदेश तथा 'आ' को औ - औकारलोप ।। ६७३ ।
६७४. ऋदन्तस्येरगुणे [३। ५ । ४२ ]
-
[सूत्रार्थ]
अगुण प्रत्यय के परे रहते ऋकारान्त धातुघटित ऋकार को 'ईर्' आदेश होता है।। ६७४। [दु०वृ०]
ऋदन्तस्य धातोः श्रुतस्य स्थानिनोऽन्तरतमो गुणे प्रत्यये परे ईर् भवति । चिकीर्षति, जिहीर्षति, तितीर्षति। ऋदन्तस्येति किम् ? चक्रतुः । " कीर्त्तीषोः क्तिः " ( ४ । ५। ८६) इति निर्देशात् कीत्र्यति ।। ६७४ ।
[दु० टी०]
-
ऋद०। ऋदन्तो येषामिति बहुव्रीहावपि ऋकारस्यैवायमादेशोऽनेकवर्णोऽपि न समुदायस्येत्याह – श्रुतस्येति । यस्मान्निर्दिश्यमानानामादेशिनामादेशा इति "ऋवर्णटवर्गरषा: मूर्धन्याः' (कात० शि० सू० ३) इति ऋवर्णस्य मूर्धन्यस्येरित्येकदेशेनान्तरतमोऽस्तीति । ऋच्चासावन्तश्चेति किं कर्मधारयेण कृतविशेष्यपूर्वपदेन, यद्येवं किमन्तग्रहणेन ? सत्यम्,