________________
२१४
कातन्त्रव्याकरणम्
[दु० वृ०]
आकारात् परस्याट और्भवति। पपौ, तस्थौ। आशिषि तुह्योस्तातण वा वक्तव्यः। जीवत्, जीवतात्, जीव त्वम्। नन्दतु, नन्दतात्, नन्द त्वम्। एवं कुरुतात्, भिन्तात्, छिन्तात्। नकारोऽगुणार्थ:।। ६७३।
[दु० टी०]
आकारा। अट इति परोक्षायाः प्रथमोत्तमपुरुषयोरेकवचनस्य ग्रहणम् । अटोऽन्तरङ्गमपि दीर्घात् परलोपं बाधित्वा वचनादौत्वम्। तत: स्वरविधि: स्वरे द्विर्वचननिमित्ते कृते द्विर्वचने “सन्ध्यक्षरे च" (३। ६ । ३८) इत्याकारलोपः। आशिषीत्यादि। आशिषि यौ विहितौ तुही, तयोरित्यर्थः। णकारोऽगुणार्थ इति। तुशब्दस्य गुणित्वात् तदादेशो गुणी मा भूत्। न च वक्तव्यम्, एवंभूता अव्यया इति ।। ६७३।
[वि० प०]
आकारात्। दीर्घात् परलोपमन्तरङ्गमपि बाधित्वा अतो वचनादट औकारस्तत: कृते द्विर्वचने स्वरविधिरिति "सन्ध्यक्षरे च" (३ । ६। ३८) इत्याकारलोप: । आशिषीत्यादि। "समर्थनाशिषोश्च" (३। १ । १९) इति वचनाद् आशिषि यौ विहितौ तुही इति, तयोरित्यर्थः। वक्तव्यमिति। मतान्तरमुक्तम्-अस्य तु मते दर्शनम् अव्यया एवम्भूता इति।। ६७३।
[बि० टी०]
आका० । नन्विह ओकार एव विधीयताम्, “सन्ध्यक्षरे च" (३।६। ३८) इत्यत्र सन्ध्यक्षरग्रहणम् अपनीय एति चेति विदध्यात्, तत्रापि लाघवमस्ति। अत्र च गरुकरणस्याभावो लाघवम्, ततः “आकारादट औ" (३। ५। ४१) इति कृते सिध्यति 'ययौ' इति। नैवम्, “अट औ'' इति कृते सन्धो द्विर्वचनं न स्यात्, निमित्ताभावात्। न च वाच्यम्, "स्वरविधि: स्वरे" (३। ८ । ३०) इत्यादिना कृते द्विवचने पश्चात् स्वरस्य स्थानेऽनेन विधिर्भविष्यति, तत्तु स्वरविधौ न सन्धिलक्षणमुपतिष्ठते, अतो 'ययौ' इति न सिध्यति। अथाकारेण "अट औ'' इत्यपि कृते "सन्ध्यक्षरे च" (३।६। ३८) इत्यत्र एति चेति कृते सिध्यति, इदं तु आख्यातविधित्वात्। किन्तु स्वरे परे य: स्वरविधिविचनविधिश्च, तत्र प्रवर्तत। ‘स्वरविधि: स्वर' इति वचनम्, तत्र स्वरस्य स्थाने विधि: स्वरविधित्वान्न प्रवर्तते।। ६७३।
[समीक्षा]
'पपो, ययौ, तस्थौ' आदि शब्दरूपों के सिद्ध्यर्थ 'अट्' या 'णल्' प्रत्यय को औकारादेश दोनों ही व्याकरणों में किया गया है। पाणिनीय व्याकरण में तिप् - तस् आदि परस्मेपदसंज्ञक ९ प्रत्ययों के स्थान में 'णल् – अतुस' आदि आदेश किए गए हैं। तदनुसार ‘णल्' को 'औ' आदेश निर्दिष्ट है- "आत औ णल:"