________________
२१६
कातन्त्रव्याकरणम् अन्तग्रहणं गणपठितार्थम्, अन्यथा कृरिवाचरतीति आयिलोपे कृते यणि सति 'कृयते' इत्यत्रापि स्यात्। ऋकार एवान्ते यस्य दृष्टस्तस्य भवतीति अत्राप्याय्यन्तस्येत्यर्थः। अन्यथा लक्षणप्रतिपदोक्तयोरिति परिभाषाबाधनार्थम्, अन्यथा ‘क विक्षेपे' (५। २१) इत्येवमादीनामेव स्यात् न कृतदीर्घाणाम्। तपरकरणमसन्देहार्थमिति, अन्यथा हि रन्तस्येत्युच्यमाने 'पूरी, पूर्ण:' इत्यत्रापि स्यात् । वक्ष्यमाणे च सूत्रे ओष्ठ्यौपधमात्रस्य च उरादेशः सम्भाव्येत। गिरतेरिति च ज्ञापकं प्रतिपत्तिगौरवं स्यात्। कीर्तीत्यादि। 'कृत संशब्दने' (९। ७४), चुरादित्वादिन्।
ननु 'कीर्त्त संशब्दने' इति कथं न पठितम्, न चान्य ऋकारोपध: संभवति ? सत्यम्, क्वचिदिरादेश एव नास्तीति बोधयति तेन 'अचीकृतत्' इति सिद्धम्। शर्ववर्मणस्तु मतं लोकोपचारादेव कृतेर्ऋत ईर् भवति। अगुण इति किम् ? तरति, तरीता। परत्वाद् गुणं बाधते।। ६७४।
[वि० प०]
ऋदन्तः । श्रुतस्य स्थानिन इति ऋदन्तो यस्य स ऋदन्तो धातुरिति बहुव्रीहावनेकवर्णोऽप्ययमादेशो न सर्वस्य, अपि तु 'श्रुतानुमितयोः श्रुतसम्बन्धो विधिर्बलवान्' (का० परि० ९२) इति ऋकारस्यैव न धातोरश्रुतत्वात्। न हि कृप्रभृतयो धातवः श्रुता: किन्तर्हि समासगम्या इति अन्तरतम इत्यनेन स्थानेऽन्तरतमन्यायाद् वेति सूचितम्। 'अवर्णटवर्गरषा: मूर्धन्याः' (कात० शि० सू० ३) इत्येकदेशान्तरतमत्वमस्तीति। चिकीर्षतीति। 'डु कृञ् करणे' (७। ७), "स्वरान्तानां सनि" (३। ८। १२) इति दीर्घत्वे सति ईर् भवति। "नामिनो ऊ:" (३। ८। १४) इत्यादिना दीर्घः। इह लक्षणप्रतिपदोक्तयोरिति नाशकनीयम् भवति, अन्तग्रहणस्य व्याप्त्यर्थत्वात्, अन्यथा 'येन विधिस्तदन्तस्य' (का० परि० ३) इति सिद्धमेवेति भावः।। ६७४।
[बि० टी०]
ऋद० । ऋदन्तस्येति किमिति रन्तस्येत्यास्ताम्। न च वक्तव्यं रन्तस्येत्युक्ते रेफस्य स्यात्। 'पूरी आप्यायने' 'पूर्णः' इत्यत्र “गिरतेश्चेक्रीयिते" (३। ६। ९८) इति ज्ञापकात् तर्हि ह्रस्वस्य स्याद् इत्याह - चक्रवरिति । तर्हि "किरो धान्ये" (४।५।२०) इति निर्देशाद् ह्रस्वस्य न स्यादिति चेत्, नैवम्। तदा सुखार्थ भविष्यति। नन्विकारो भवतीत्यर्थः कथं न स्यात्, नैवम्। अत्रापि ज्ञापकमन्वेतव्यम् – गिरतेरिति ।। ६७४।
[समीक्षा
'चिकीर्षति, तितीर्षति' इत्यादि शब्दरूपों में ऋकार को ईर् आदेश की अपेक्षा होती है, जिसका निर्देश दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है"ऋत इद् धातो:'' (अ० ७।१। १००)। तदनुसार पाणिनि ऋ को 'इत्त्व – रपर - दीर्घ' करके उक्त अपेक्षा की पूर्ति करते हैं, जबकि कातन्त्रकार 'इंर्' आदेश के निर्देश से लापव का बोध कराते हैं।