________________
२०२
कातन्त्रव्याकरणम्
६६६. रभिलभोरविकरणपरोक्षयोः [३। ५। ३४] [सूत्रार्थ]
विकरण तथा परोक्षाविभक्ति से भिन्न स्वरादि प्रत्यय के परे रहने पर 'रभ् लभ्' धातुओं में नकारागम होता है।। ६६६ ।
[दु० वृ०]
रभिलभोः स्वरात् परो नकारागमो भवति अविकरण – परोक्षयोः स्वरे परे। आरम्भयति, आरम्भि, आरम्भो वर्तते। आलम्भयति, आलम्भि, आलम्भो वर्तते। अविकरणपरोक्षयोरिति किम् ? आरभते, आलभते, रेभे, लेभे।। ६६६।
[दु० टी०]
रभि० । विकरणश्च परोक्षा चेति द्वन्द्वे पश्चान्नसमास:। विकरणपरोक्षाभ्यामन्यत्र स्वरे भवतीति पर्युदासादाख्यातिक एव स्यात् ? सत्यम् । नात्र प्रकरणमाश्रीयतें प्रसज्यप्रतिषेधेऽपि, तथा आख्यातिके स्वरे भवति विकरणपरोक्षयोर्न भवतीति यस्मादाश्रयणं पुरुषायत्तमिति । रभिलभिभ्यां सम्बन्धस्याविवक्षितत्वान्न यथासङ्ख्यं रभेर्विकरणे लभेश्च परोक्षायां न भवति। अननपरोक्षयोरिति सिद्धे विकरणग्रहणं स्पष्टार्थम्। चेक्रीयितलुगन्तस्य भाषायामप्रयोगे शस्तन्यामनि 'अरारम्भः, अलालम्भः' इति स्थानिवद्भावाद् विकरणग्रहणस्य न परिहारः। णमिचोर्लभेरनुपसर्गस्य वेति वाच्यम्। लाभं लाभम्, लम्भं लम्भम् मोदते। अलाभि, अलम्भि। तथा च 'अलिभिरलाभि सदङ्गनागणस्य' इति माघे। अनुपसर्गस्येत्येव – 'उपलम्भम् उपलम्भम् , उपालम्भि'। नित्यं स्यात्, तदेतन्न वक्तव्यम्। 'लाभ प्रेरणे' (९। २४५) इत्यनेन चौरादिकेन सिद्धत्वात् ।। ६६६।।
[वि० प०]
रभि०। इह नेटीति न वर्तते, प्राप्जेरभावात्। 'रभे, लेभे' इति। अस्यैकव्यञ्जनमध्ये इत्यनेनैत्वम् अभ्यासलोपश्च, रभिलभिभ्यां सम्बन्धस्याविवक्षितत्वाद् इह विकरणपरोक्षयोर्यथासंख्यं न भवतीति। विकरणे परोक्षायां च प्रत्येक रभिलभाः प्रत्युदाहृतम्, अन्यथा रभेर्विकरणे लभेश्च परोक्षायां न भवतीति स्यात्।। ६६६ ।
[बि० टी०] .
रभिः । नन रभिलभोः स्वरात परो रेफो भवतीत्यर्थः कथं न स्यात्, 'र' इति लुप्तप्रथमैकवचनम्। नैवम्, तदा हि नि:संदेहार्थं प्रथमैकवचनं कुर्यात् ।। ६६६।।
[समीक्षा]
'आरम्भयति, आलम्भयति' आदि शब्दरूपों के सिद्धयर्थ दोनों व्याकरणों में नकारागम की व्यवस्था की गई है। लिट् – परोक्षा' तथा 'शप-विकरण' शब्दों का प्रयोग अपने - अपने व्याकरण की पारिभाषिक शब्दावली के अनुसार किया गया है। पाणिनि का सूत्र है- “रभेरशब्लिटो:, लभेश्च'' (अ० ७।१। ६३, ६४)। पाणिनि ने "लभश्च' इस सूत्र का पृथक् पाठ उत्तरार्थ किया है।