________________
१८०
कातन्त्रव्याकरणम् सन् गणी स्यात् ? किञ्च ज्ञापकमपि लक्षणं भवति कथमगणविधानं नास्तीति तस्मान्नेदं कर्तव्यमिति तदसत्, ज्ञीप्सतीत्यत्र कारितलोपार्थं कर्तव्यमेव, अन्यथा ह्यसत्यगुणत्वेऽनवकाशत्वाद् दीर्घत्वेन यथा गुणो बाध्यते, तथा कारितलोपोऽपि बाध्यते। सति पुनरगुणत्वे यत्र चिचीषतीत्यादिषु गुणो न भवति तत्र सावकाशं दीर्घत्वं बाधित्वा ज्ञीप्सतीत्यत्र नित्यत्वात् कारितलोप एव प्रवर्तते, यदि पुनरगुणत्वं सनो न स्यात् तदा अनवकाशत्वाद् दीर्घत्वमिति नित्यामपि परिभाषां बाधित्वा तदेव स्यात्, अनवकाशं हि वचनप्रामाण्यानित्यादिकं बाधते। यथोक्तम् ‘परान्नित्यं नित्यादन्तरङ्गम्, अन्तरङ्गाच्चानवकाशं बलीय:' (का० परि० ५१) इत्याह – दीर्घाणां चेति। चकारान्न केवलं ह्रस्वानां दीर्घाणां चेति सम्बन्धः। 'चेत्' शब्दो यद्यर्थे । यद्येवं मन्यसे ह्रस्वानां दीर्घाणां च कृतो दीर्घो गुणं बाधेत गुणबाधां सम्भावयेत्, तदा इरुरावपि बाधतेति।।
सोपस्कारमक्षरयोजना कर्तव्या। नाम शब्दोऽयमव्ययोऽभ्युपगमे वर्तते, यस्माद् दीर्घजाविरुरौ, तस्मात् तो भविष्यत: इत्यभ्युपगच्छति प्रतिजानीते इत्यर्थः। अमर्षे वा परपक्षमसहमानः प्राह-इरुरी दीर्घजाविति। जीप्सतीति। 'ज्ञा अवबोधने' (८। ३१), हेताविन्, "अर्तिही०" (३।६। २२) इत्यादिना पकारागमः। 'मारणतोषणनिशामनेषु ज्ञा:' (१ । ५२५) इति मानुबन्धत्वाद् ह्रस्व: । ऋधिज्ञप्योरोरीतौ वक्तव्याविति वचनादीकार: कारितलोपश्च।। ६४९।
[बि० टी०]
नाम्यन्ता० । नन्वेतत्सत्राभावे शिश्रयिषतीत्यादौ "स्वरान्तानां सनि" (३। ८ । १२) इति दीर्घ: कथन्न स्यात्। तत्राह रमापति: - अस्मिन् सूत्राभावेऽनिटामिति कर्तव्यम्, तदा सेटि न स्यात्। पत्राङ्कुर आह - यथा ज्ञीप्सतीति दूषणं स्यात् तथाऽत्रापि। तत्र हेमकरोऽप्याह - अत्र सकारे व्यक्तिराश्रयिष्यते इष्टत्वादिति शेषः। पण्डितस्त्वाह - तत्र हि द्विसकारः पठितव्यः। सकारादौ सनीत्यर्थः। वासुदेवसेनमहोदयस्त्वाह - "उवर्णस्य जान्तस्था०" (३। ३। २७) इत्यत्र वर्णग्रहणं सेटि सनि गुणात् प्राग् द्विवचनार्थम्। तथा च वर्णग्रहणं बोधयति सेटि सनि दी? न स्यात्। 'यं विधिम्०' (का० परि० ५०) इत्यादि तत्र परिभाषायां वृत्तिकार आह - सुपी:, सुतरित्यत्र 'यं विधिं प्रत्यपेदेशोग्नर्थक:' (का० परि० ५०), उपदिश्यतेऽनेनेति उपदेशोऽनर्थक: स विधिर्बाध्यते बाधितो भवति। अर्थाच्छिष्यादिभि: स योगो न कर्तव्य इत्यर्थः। यस्य तु विधेर्निमित्नमस्ति प्रयोजनमस्ति शब्दस्वरूपं नासो विधिर्बाध्यते बाधितो न भवतीत्यर्थः।
ननु अस्मिन्नेवार्थे सति अत्रापि चिचीषतीत्यादौ ‘यं विधिं प्रत्युपदेशोऽनर्थको दीर्घविधायकयोगोऽनर्थकः स विधिर्बाध्यते बाधितो भवतीत्यर्थ: स्यात्। कथमुक्तम् ‘यं गुणविधिं प्रति' इति पञ्जिकायाम्। अत्राह रमापति:- ‘यं विधिं प्रत्युपदेशोऽनर्थकः' इति सूक्ष्मार्थ एव। तदुक्तं तत्र पञ्जीकृता – 'यं गुणविधि प्रति तत्साध्यक्षतिर्नास्तीति पञ्जीकृतोक्तम्।