________________
तृतीये आख्याताध्याये पञ्चमो गुणपाद:
१७९ सिद्धेः। न विद्यते इड् येभ्यो धातुभ्य इति सामानाधिकरण्यं सुखार्थम्। अन्यथा न विद्यते इड् यस्य सन इति विग्रहे लाघवमपि स्यात्। ननु किमर्थमिदं प्राप्ते हि गुणे "स्वरान्तानां सनि" (३। ८ । १२) इति दीर्घ आरभ्यते स तस्य बाधको भविष्यतीति, अन्यथा दीर्घवचनमनर्थकं स्यात्। अथ 'चुकूषते' इति कुटादित्वाद् गुणप्रतिषेधे वचनमर्थवदिति। नैतदेवम्, न ह्येकमुदाहरणं प्रति योगारम्भं प्रयोजयति, अन्यथोकारमेव विदध्यात्। अन्य आह – 'कुङ् शब्दे' (१। ४५८; ५। १०९) इति कुटादौ दीर्घ एव पठ्यते। तथाहि 'आकूतमस्या: प्रतिभाति रम्यम्' इति लोके प्रयोगो दृश्यते इति, तर्हि स्वरान्तानां दीर्घसामर्थ्याद् गुणो न भविष्यतीति। दीर्घाणान्तु प्रसज्येत। नैवम् , गुणबाट नाय दीर्घाणामपि दीर्घः क्रियते। यथा भुक्तवतामपि पुनर्भोजनं भोजनविशेषाय। यद्येवम्, इरुरोरपि बाधा स्यात्। नैवम्, 'यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते, यस्य तु विधे- निमित्तमस्ति नासौ विधिर्बाध्यते' (का० परि० ५०), ऋकारस्य दीर्घत्वे हि इरुरोः प्राप्तिरिति दीर्घत्वं निमित्तमेव। 'तितीर्षति, मुमूर्षति' इति गुणबाधनार्थ दीर्घत्वं कर्तव्यमेव। यद्येवम्, असत्यगुणत्वेऽनवकाशत्वाद् दीर्घत्वेन यथा गुणस्य बाधा, तथा कारितलोपस्यापि बाधा स्यात् । अगुणत्वे तु सति सावकाशत्वात्। तथाहि नित्यत्वात् कारितलोप एव स्यादिति मनसि कृत्वाह - दीर्घाणां चेत्यादि। चकारो ह्रस्वसंसूचकः। चेद् यद्यर्थे, दीर्घाज्जातौ दीर्घजौ, नामाव्ययमभ्युपगमे प्राकाश्य वा।। ६४९ ।
[वि. प०]
नाम्य० । शिश्रयिषतीति। "इवन्तर्ध०" (३। ७। ३३) इत्यादिना पक्षे इट्। अथ किमर्थमिदं यावता गुणे हि प्राप्ते "स्वरान्तानां सनि" (३। ८। १२) इति दी? विधीयमानस्तस्य बाधको भविष्यति। अन्यथा दीर्घविधानमेवानर्थक स्यादिति। अथ 'कुङ् शब्दे' (१ । ४५८; ५ । १०९) इत्यस्य कुटादित्वाद् गुणनिषेधे 'चुकूषते' इत्यत्र दीर्घवचन- मर्थवदिति चेत् तदयुक्तम्। न ह्येकमुदाहरणं प्रति योगारम्भं प्रयोजयति। तथा च सति उकारमेव विदध्यात्, न च स्वरान्तानामिति। तर्हि चिचीषतीत्यादिषु ह्रस्वानां दीर्घसामर्थ्याद् गुणो न भवति, निनीषतीत्यादौ तु दीर्घाणां गुण: स्यादेव, न हि तेषां दीर्घत्वमुपलभ्यते स्वभावे दीर्घत्वात्। तदप्पयुक्तम्, गणबाधनार्थं दीर्घाणामपि दीर्घः करिष्यते, यथा भुक्तवतामपि पुनर्भोजनं भोजनविशेषार्थमिति। एवन्तर्हि यथा गुणं बाधते चिकीर्षतीत्यादौ इरुरोरपि बाधेत ? नेवम्, इरुरी हि दीर्घाज्जायमानौ कथं दीर्घेण बाधितुं शक्यते, यत: 'यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते, यस्य तु विधेनिमित्तमस्ति नासौ विधिर्बाध्यते' (का० परि० ५०), गुणं प्रति दीर्घस्योपदेशोऽनर्थक इ.यसो बाध्यते। इरुरोः पुनर्दीर्घत्वमेव निमित्तम्, तेन विना तयोरभावात् कथम् इरुरौ दीर्घत्वेन बाध्येते। नहि निमित्तं नैमित्तिकस्य बाधकम् , तस्य निमित्तत्वाप्रसङ्गात्।
न च वक्तव्यम् अगणविधानेन विना कथम् इरुराविति दीर्घस्य ज्ञापकत्वाद गुणिन्येव सनि गुणाभावो ज्ञापित इति यस्माद् गुणो यस्मिन्नास्ति असावगुण इति कथं