________________
कातन्त्रव्याकरणम् २. वस्तुतस्तु क़्यादीनामिनि बहुवचनं बोधयति (बि०टी० ३/४/४२) । ३. वस्तुतस्तु यण्वद्भावमाश्रित्यानुषङ्गलोपः (बि०टी० ३/४/५२) । ४. वस्तुतस्तु यणादौ णानुबन्धमन्तरेण ०(बि०टी०३/५/७) ।
५. वस्तुतस्तु आर्षप्रयोग उपसर्गप्रतिरूपकेणाङा साधुरिति गोपीनाथः (बि०टी० ३/५/२४)।
६. वस्तुतस्तु एवं युज्यते पञ्जी (बि०टी०३/५/४४)।
७.वस्तुतस्तु 'राजीयति' इत्यत्र “यिन्यवर्णस्य''इति सूत्रबलात्० (बि०टी० ३/६/४६)।
८. वस्तुतस्तु सनि परसूत्रेणेड् विभाष्यते (बि०टी० ३/७/३२) । ९. वस्तुतस्तु चतुर्थग्रहणाभावे धुटां तृतीय इति (बि०टी०३/८/८) । १०. वस्तुतस्तु स्वरदन्त्यपरा इत्यत्र स्वतन्त्रेण स्वरेण ०(बि०टी०३/८/२४)। शर्ववर्माचार्येणाद्यव्याकरणस्य दर्शनम्, परलोकस्य जन्मान्तरार्थे प्रयोगश्च
१. भृजः स्वरात् परस्य स्वरे द्विर्भवति । ..... आद्यव्याकरणमतमेतत् (दु० वृ० ३।८।१०)।
आधुनिकव्याकरणेषु नैतल्लक्षणमस्तीति भाव: (दु०टी० ३।८।१०) ।
२. परलोके जन्मान्तरे फलमभ्युदयलक्षणं प्रयच्छन् परलोकप्रयोजनत्वात् पारलौकिको भवतीति प्रत्युदाह्रियते (वि०प० ३।४।२३) ।
व्याख्याकारैर्बहूनि कार्याणि सुखावबोधार्थम् , मन्दमतिबोधार्थम् , अगुणार्थम् , अनुक्तसमुच्चयार्थम् , उच्चारणार्थम् ,उत्तरार्थम् , नियमार्थम् . प्रतिपत्तिगौरवनिरासार्थम् , स्पष्टार्थम् , स्वरूपपरिग्रहार्थम् , प्रतिषेधबाधनार्थम् , प्रयोगनिवृत्त्यर्थम् , विशेषप्रतिपत्त्यर्थम्, वैचित्र्यार्थम् , पूर्वपक्षार्थम् , व्युत्पत्त्यर्थं चाङ्गीकृतानि । एतेषां क्रमबद्धपरिचयार्थ वर्णानुक्रमेण सम्बद्धवचनानि ससन्दर्भ प्रस्तृयन्ते -
१. [अगुणार्थम् - २] १. परस्मैपदग्रहणम् एकत्वेऽपि क्वचिदगुणार्थम् (बिल्टी० ३।५।१९) । २. णकारोऽगुणार्थ: (दुल्टी० ३।५।४१) । २. [अनन्यार्थम् - १] ३. तिप-निर्देशोऽयं सुखार्थः । अनन्यार्थ इत्येक (दु० टी० ३।४।२) ।