________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपादः
१३९
२. अभिधानमेव युक्तम्, तथा प्रतीते: (दु० टी० ) ।
३. आदेशविधानाभावात् परस्य प्रत्युदाहरणमिह न्यायसिद्धमिति दर्शयन्नाह अर्थानित्यादि (वि० प० ) । [रूपसिद्धि]
१. ग्रामं जिगमिषति । इण् + सन् + ति । एतुमिच्छति । 'इण् गतौ' (२ । १३) धातु से इच्छा अर्थ में " धातोर्वा तुमन्तादच्छितिनैककर्तृकात्” (३ । २ । ४) सूत्र द्वारा सन् प्रत्यय, न् अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से इण् को गम् आदेश, ‘“से गम: परस्मै” (३। ७। ६) से इडागम, “चण्परोक्षाचेक्रीयितसनन्तेषु" (३ । ३ । ७) से 'गम्' को द्विर्वचन, “पूर्वोऽभ्यास:" (३ । ३ । ४) से पूर्ववर्ती 'गम्' की अभ्याससंज्ञा, आदि व्यञ्जन का शेष, "सन्यवर्णस्य" (३ । ३ । २६ ) से अकार को इकार, "कवर्गस्य चवर्ग:” (३। ३। १३) से गकार को जकार, "नामिकरपरः प्रत्ययविकारागमस्थ : सि: षं नुविसर्जनीयषान्तरोऽपि ” (२ । ४ । ४८) से सकार को षकार, "ते धातव:" (३। २। १६) से 'जिगमिष' की धातुसंज्ञा तथा विभक्तिकार्य ।
२. वेदान् अधिजिगांसते। अधि + इङ् + सन् + ते। अध्येतुमिच्छति। 'अधि’ उपसर्गपूर्वक ‘इङ् अध्ययने' (२ । ५६) धातु से सन् प्रत्यय, प्रकृत सूत्र से गम् आदेश, द्विर्वचनादि, “हनिङ्गमोरुपधायाः " से दीर्घ, म् को अनुस्वार, परसवर्ण, 'अधिजिगांस' की धातुसज्ञा तथा विभक्तिकार्य ।। ६२५ ।
६२६. अस्तेर्भूरसार्वधातुके [३ । ४ । ८६ ]
[ सूत्रार्थ ]
सार्वधातुकसंज्ञा से भिन्न (असार्वधातुक) विषय में 'अस्' धातु को 'भू' आदेश होता है।। ६२६ ।
[दु० वृ०]
अस्तेर्भूरादेशो भवति असार्वधातुकविषये । भविता, भूतः । भव्यम्, "स्वराद् य:” (४। २ । १०)। तिपा निर्देश: किम् ? असिता ।। ६२६ ।
[दु० टी० ]
अस्ते॰ । लोकेँ व्याकरणं च निमित्तनैमित्तिकयोः पौर्वापर्य दृष्टम् । अथा बीजाङ्कुरयोः । “समानः सवर्णे दीर्घीभवति” (१ । २ । १) इति दीर्घात् सवर्णस्य पूवत्व (परत्व) मेव, तस्माद् असार्वधातुके निमित्ते भूरादेशो विधीयमानः प्रकृत्यवस्थायामेव युक्तस्तस्मिन् परत: प्राप्नोति, भव्यमिति न सिध्यति । व्यञ्जनान्तत्वाद् म्याणि कृते तेन भाव्यम्, तथा प्रवेयमिति। अजेर्वीभाव आख्येय इति चक्षिङः ख्याञादेशे नैष दोष:, सामान्याश्रयत्वादिति । असार्वधातुकसामान्यं घ्यणादिप्रत्ययस्यापि गम्यते यतोऽभिहिताद् यदर्थप्रतीति:, स तस्यार्थ इति न्याय्यम् । असार्वधातुकशब्दाच्च सामान्यमेव गम्यते, न तु विशेषा घ्यणादयः सामान्यविशेषयोश्च परस्परविरोधात् । यथा विशेषाश्रयणे सामान्यं नाश्रीयते