________________
१४०
कातन्त्रव्याकरणम्
"घ्यणावश्यके" (४। ६। ५९) इति। तथा सामान्याश्रयेऽपि न विशेषाश्रयः इति। अत्र प्रथममेव बुद्ध्या निरूप्य सार्वधातुकसामान्यमादेशा: क्रियन्ते, कृतेषु च तेषु तत्सामान्या-- भिव्यक्तयेऽनुरूपां व्यक्तिं प्रयुञ्जते। भ्वादेशो यां व्यक्तिम्, वच्यादेशो घ्यण्व्यक्तिमिति प्रतिषेधस्तु सनिमित्तक: सार्वधातुकापेक्षत्वात्। 'अस्ति, स्तः, सन्ति' इत्यादेशो न भवतीत्यर्थः ।
सामान्यस्य पौर्वापर्यमिति विषयसप्तमीयमच्यते, विषयश्चानन्यभाव इति। यथा मत्स्यानां जलं विषय इति, भावि निमित्तं वा। यथा 'युद्धविषये सन्नह्यति'। भाविनि युद्धे सन्नह्यतीत्यर्थ इति। तथात्राप्यनुत्पन्न एवासार्वधातुके भूप्रभृतय आदेशाः। पश्चाद् यथासम्भवं प्रत्ययोत्पत्तिरिति। प्रत्ययः परश्चेति नियमः प्रयोगशब्दानाम्, न तु लक्षणशब्दानाम्। तथाहि भूप्रभृतयः केवला एव गणेषु पठ्यन्ते तथा लिङ्गानि चेति। इयं कार्यशब्ददर्शने युक्तिरुक्ता नित्यशब्ददर्शनेऽप्युच्यते असार्वधातुकविषया भव्यवाच्यप्रभृतिशब्दसंहतय उपचारादसार्वधातुकशब्देनाभिधीयन्ते तासु बालव्युत्पत्त्यर्थमन्वाख्यायमानाः स्वरखाङ्किता भूवचिप्रभृतयः आदेशा: कर्तव्या:। अत एवाच्यते द्विधा नित्यता - परमार्थनित्यता, व्यवहारनित्यता च। अस्ते: प्रयोगनिवृत्त्यर्थं वचनमिदम्।। ६२६।
[वि० प०]
अस्ते: । “स्वराद् यः" (४। २ । १०) इत्यनेन 'असार्वधातुके' इति विषयसप्तम्या: फलं दर्शितम् । तथाहि बुद्धिस्थे प्रत्यये भूरादेशस्तत: स्वरान्तत्वाद् यप्रत्ययः इति। एवं च सति भव्यमिति सिध्यति, तथोत्नरत्रापि।। ६२६ ।
[बि० टी०]
अस्तेः। ननु किमर्थमिदम् ‘भविता, भवितव्यम्' इति भूधातुना सिध्यति? सत्यम्। अस्तेः प्रयोगनिरासार्थं लाघवार्थमविकरणे इति न कृतम्, अस्तिब्रूचक्षिङ विकरणस्य स्थितेरभावात् तद्विषयात् कल्पनीयं स्यात्, सार्वधातुकविषयत्वमेव युक्तम्।। ६२६ ।
[समीक्षा]
'अस्' धातु से 'भविता, भूत:' आदि प्रयोगों के सिद्धयर्थ 'भू' आदेश की अपेक्षा को दोनों ही आचार्यों ने पूर्ण किया है। पाणिनि का सूत्र है- “अस्तेर्भूः' (अ० २।४। ५२)। पाणिनि ने सार्वधात्क से भिन्न आर्धधातुक संज्ञा की है और उसका "आर्धधातुके'' (अ० २। ४। ३५) सूत्र द्वारा अधिकार निश्चित किया है। इसी अधिकार के अन्तर्गत 'भू' आदि अपेक्षित आदेशों का विधान है। कातन्त्रकार सार्वधातुक से भिन्न प्रत्ययों के लिए 'असार्वधातक' संज्ञा का प्रयोग करते हैं। सूत्र में अस्ति' का पाठ किया गया है, अत: अदादिगणपठित ही 'अस्' को 'भू' आदेश होता है, 'अस दीप्त्यादानयोश्च'' (१। ५७२) इस भ्वादिगणपठित धातु को नहीं। अत: उससे 'भविता' रूप सिद्ध न होकर 'असिता' ही रूप सिद्ध होता है।