________________
१३७
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपाद: [रूपसिद्धि]
१. अधिजगे। अधि + इङ् + परोक्षा – ए। 'अधि' उपसर्गपूर्वक 'इङ् अध्ययने' (२। ५६) धातु से परोक्षाविभक्तिसंज्ञक आत्मनेपद - प्रथमपुरुष -- एकवचन 'ए' प्रत्यय, प्रकृत सूत्र से 'इङ्' को 'गा' आदेश, द्विर्वचन, अभ्याससंज्ञा, ह्रस्व तथा गकार को जकारादेश।
२. अधिजगाते। अधि + इङ् + परोक्षा – आते। 'अधि' उपसर्गपूर्वक 'इङ अध्ययने' (२। ५६) धातु से परोक्षासंज्ञक 'आते प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।।
३. अधिजगिरे। अधि + इङ् + परोक्षा – इरे। 'अधि' उपसर्गपूर्वक 'इङ्' धातु से परोक्षासंज्ञक प्रथमपुरुष-बहुवचन 'इरे' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।। ६२४ ।
६२५. सनीणिङोर्गमि: [३।४। ८५] [सूत्रार्थ
'सन्' प्रत्यय के परे रहते 'इण् – इङ्' धातुओं के स्थान में 'गमि' आदेश होता है।। ६२५।
[दु० वृ०]
सनि परे इणिङोर्गमिरादेशो भवति। ग्रामं जिगमिषति, वेदान् अधिजिगांसते। गम्ल बोधने सनि नाभिधीयते चेत् तथायमपि। अर्थान् प्रतीषिषति। 'इट् इ गतौ' (१ । १०२) बोधनेऽपि दृश्यते – गमयति । गमिनैव सिद्धम् । अर्थान् प्रत्याययति, शास्त्रमध्यापयतीति भवितव्यमेव।। ६२५।
[दु० टी०]
सनि० । परस्त्वाह – अबोधने (अज्ञाने) गमिरादेश इति, तच्च विशेषणम् इण एव, इङः इकश्चासम्भवाद् अव्यभिचाराच्चेति। तर्हि 'गम्ल सप्ल गतौ' (१। २७९) इत्यस्य सनि केन वार्यते, विशेषणबलाच्चेति न वक्तव्यम् अभिधानमेव युक्तम्, तथा प्रतीरित्याह-गम्ल इत्यादि। तथायमपीति। 'इण् गतौ' (२। १३) इत्यपि नाभिधीयते इत्यर्थः। कथम् अर्थान् प्रतीषिषतीत्याह - इट् इत्यादि। तथा इणिकोरबोधने कारिते गमिरादेशो न वक्तव्य इत्याह - गमयतीत्यादि। किञ्च बोधनेऽपि दृश्यते गमिः - गम्यतेऽर्थः, गमयन्ति अर्थान् शब्दा: इति।। ६२५ ।
[वि० प०]
मनी । जिगमिषतीति। "से गमः परस्मै" (३। ७। ६) इतीट्। अधिजिगांसते इति। "हनिङ्गमोरुपधायाः" (३१ ८ ! १३) इति दीर्घः । इकोऽपीत्युक्तोऽस्य समाधिः। कश्चिद् आह - इणो धातारबोधनं गमिरादेश इति। तेनेह न भवति – अर्थान् प्रतीपिषतीति। अत्र पुनर्योधने ऽपि प्नोति विशेपाभावादिति। परस्य चोद्यमानस्य समानत्वमापादयति – बोधने मा भूट इणो गमिरादेशः। यस्तु ‘गम्ल सप्ल गतौ' (१ ।