________________
१३६
कातन्त्रव्याकरणम्
६२४. इङ: परोक्षायाम् [ ३ । ४ । ८४ ]
[सूत्रार्थ]
परोक्षाविभक्तिसंज्ञक प्रत्यय के परे रहते 'इङ्' धातु के स्थान में 'गा' आदेश होता है।। ६२४। [दु०वृ०]
इङः परोक्षायां परतो गादेशो भवति । अधिजगे, अधिजगाते, अधिजगिरे। इङ इति किम् ? ‘इट् इ गतौ' (१ । १०२ ) – उदियाय । अद्यतनीक्रियातिपत्त्योर्वा गीरादेश इष्यते अध्यगीष्ट, अध्यैष्ट, अध्यगीष्यते, अध्येष्यते । इनि संश्चणोर्गायतेरध्ययनेऽपि वृत्तिः - अधिजिगापयिषति, अध्यजीगपत् । इङस्तु - अध्यापिपयिषति, अध्यापिपत् ।। ६२४ । [दु० टी०]
इङः। अद्यतनीक्रियातिपत्त्योरित्यादि । अत्र संग्रहणमुच्यते । अधिपूर्वो गीधातुरद्यतनीक्रियातिपत्त्योरेवादिश्यते, उच्चार्यतेऽभिधानात् आचार्येणेति भावः । इडा च रूपान्तरमिति ।। ६२४।
[वि० प० ]
इङः। अद्यतनीत्यादि, अत्र संग्रह: । आङ्पूर्वो गीधातुरद्यतनीक्रियातिपत्त्योरेव प्रसिद्धः, पक्षे च रूपान्तरम् इडोऽस्त्येवेति । अध्येष्ट इति । "स्वरादीनां वृद्धिरादेः " ( ३ । ८ । १७) इति वृद्धिः। इनीत्यादि। संश्चणोर्य इन्प्रत्ययस्तस्मिन्नपि गादेशो न वक्तव्य इत्यर्थ: । 'कै गैरै शब्दे' (१ । २५६ ) इत्यनेन सिद्धम्, “अर्त्तिही०" (३।६।२२ ) इत्यादिना पकारागमः । चणि ‘“इन्यसमानलोपोपधायाः " ( ३ । ५ । ४४ ) इत्यादिना ह्रस्वः । असमानलोपत्वादभ्यासे सन्वत् कार्यम्, "दीर्घो लघोः " (३ । ३ । ३६) इति दीर्घः । इडस्त्वित्यादि। ‘‘स्मिजिक्रीङामिनि ” ( ३ । ४ । २४ ) इत्याकार: पूर्ववत् पकारागम:, "स्वरादेर्द्वितीयस्य" (३ । ३ । २) इति द्विर्वचनम् तेन विकल्पः सिद्ध इति ।। ६२४ ।
[समीक्षा]
'इङ्' धातु से परोक्षाविभक्ति में 'अधिजगे, अधिजगाते' इत्यादि शब्दरूपों के निष्पादनार्थ 'गा' आदेश करने की आवश्यकता होती है। इसकी पूर्ति दोनों ही आचार्यों ने की है। पाणिनि का सूत्र है- "गाङ् लिटि " (अ० २।४।४९ ) । व्याख्याकारों ने अद्यतनी - क्रियातिपत्ति विभक्तियों में वैकल्पिक 'गी' आदेश स्वीकार कर 'अध्यगीष्ट, अध्यैष्ट' आदि शब्दरूप सिद्ध किए हैं।
[विशेष वचन ]
१. अद्यतनीक्रियातिपत्त्यांर्वा गीरादेश इष्यते (दु वृ० ) । २. इनि संश्चणोर्गायतेरध्ययनेऽपि वृत्तिः (दु० वृ०) । ३. उच्चार्यतेऽभिधानात् आचार्येणेति भाव: (दु० टी० ) ।