________________
११५
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपादः २. नाव्यते। नौ + आयि + ते। नावमात्मन इच्छति, नौरिवाचरति। नौ' शब्द से 'आयि' प्रत्यय, आकारलोप, प्रकृत सूत्र से स्वरवद्भाव, औकार को आव् आदेश, 'नाव्य' की धातुसंज्ञा, वर्तमानासंज्ञक 'ते' प्रत्यय, अन्-विकरण तथा अकारलोप।। ६०८। ६०९. नाम्यन्तानां यणायियिन्नाशीश्च्विचेक्रीयितेषु ये दीर्घः [३।४।६९]
[सूत्रार्थ]
नाम्यन्त धातुओं को यण् – आयि – यिन् – आशीविभक्ति तथा चेक्रीयितसंज्ञक प्रत्यय – घटित 'य' के परवर्ती होने पर एवं च्वि – प्रत्यय के परे रहते दीर्घ आदेश होता है।। ६०९।
[दु० वृ०]
नाम्यन्तानां धातूनां यणादिषु ये च्वौ च परत: आन्तरतम्याद् दीर्घो भवति। चीयते, मन्तूयति, अग्नीयते, पटूयति, चीयात्, चेचीयते। च्वौ च – पटूकरोति। ये इति किम् ? कृषीष्ट। नामीति सम्भवदर्शनार्थमिदम् ।। ६०९।
[दु० टी०]
नाम्य० । यणादिषु ये इति यणादिविषये यो यकार इत्यर्थ: व्यावृत्तिः पुनराशीविभक्तावेव संभवति, तद्द्वारेणान्यत्रापि संबध्यते एकवाक्यत्वाल्लघुप्रतिपत्तिबन्धनत्वाच्च। "च्वौ च" (अ० ७। ४। २६) इति विप्रत्यय एव प्रतीयते, शब्दस्यासम्भवात्। आचार्यास्तु विशब्दं न पठन्ति, रूढिशब्दा हि तद्धिता इति। नामीति सम्भवदर्शनम् मन्दधियां सुखबोधार्थमिति भावः। यिनि च्वौ च परत्वाद् अपवादत्वाच्च ईत्त्वेनभवितव्यम्, आयो तु समानलक्षणे दीर्धेऽप्यविशेष: यणाशीश्चक्रीयितेष्वस्य च लोपः इति वचनाच्चेति।। ६०९ ।
[वि० प०]
नाम्य० । मन्तूयति इति। मन्तुशब्दात् कण्ड्वादित्वाद् यण्। “वो च” इति। अपटुं पटुं करोति इति “अभूततद्भावे कृभ्वस्तिषु विकाराच्विः ' (अ० ५। ४। ५०) इति च्विप्रत्ययः, स्वभावाच्व्यन्तम् अव्ययम्। अथ किमर्थं नामिग्रहणं नहि यणादिष्वन्यो ह्रस्व: संभवति। तथा अकारस्य यणाशीश्चक्रीयितेषु परत्वाद् अस्य च लोपेन भवितव्यम्, तथा यिनि च्वौ च प्रत्यये ईत्वेन आयिप्रत्यये तु समानलक्षणे दीर्घोऽप्यविशेष इति परिशिष्टो नाम्येव सम्भवतीत्याह – नामीति सम्भवदर्शनार्थमिति। यदेव सम्भवति तदेव दर्शितं सुखार्थमित्यर्थः। नामीत्युपलक्षणं नाम्यन्तानामित्येतदपीत्यर्थः, न चान्तग्रहणादृते मध्यस्य स्यादिति वचनीयं य इत्युपश्लषलक्षणसप्तमीत्वादिति।। ६०९।
[बि० टी०]
नाम्य० । 'ये' इत्यस्य व्यावृत्तिराशिष्येवेति टीका। ननु कथमिदमुक्तं ये - ग्रहणाभावे जितमित्यत्र कानुबन्धे यण्वभावाद् दीर्घ: स्यात्। सिद्धपक्षे 'योक्तवर्जम्'