________________
११०
कातन्त्रव्याकरणम्
२. इचीति विषयसप्तमी, तेन बुद्धिस्थमिचः परत्वं भवतीति न दोषः। वचनात् पूर्वेण प्राप्तोऽपि वा ह्रस्वो न भवति (दु० टी०)।
३. वाशब्दोऽत्र समुच्चये इति ह्रस्वो वा दीर्घश्च वा भवतीत्यर्थः (दु० टी०)। ४. इचीति विषयसप्तमीयम् अनुत्पन्ने बुद्धिस्थे एव प्रत्यये विकल्प: (वि० प०)। [रूपसिद्धि]
१. अघटि, अघाटि। अट् + घट + इन् + इच् + त। 'घट चेष्टायाम्' (१४८९) धातु से “धातोश्च हेतौ'' (३। २ । १०) सूत्र द्वारा 'इन्' प्रत्यय, “अस्योपधाया दी? वृद्धिर्नामिनामिनिचट्सु' (३। ६। ५) से उपधादीर्घ, "ते धातवः'' (३। २। १६) से 'घाटि' की धातुसंज्ञा, अद्यतनीसंज्ञक आत्मनेपद-प्रथमपुरुष–एकवचन 'त' प्रत्यय, "अड् धात्वादिस्तिन्यद्यतनीक्रियातिपत्तिषु' (३। ८। १६) से धातुपूर्व अडागम, "भावकर्मणोश्च' (३। २। ३०) से इच् प्रत्यय (अघाटि + इच् + त), प्रकृत सूत्र से ह्रस्व, “कारितस्यानामिड् विकरणे'' (३।६। ४४) से इन् का लोप तथा “इचस्तलोप:' (३। ४। ३२) से त-लोप।
यत: ह्रस्वविधि वैकल्पिक है, अत: पक्ष में 'अघाटि' रूप सिद्ध होगा।
२. अव्यथि, अव्याथि। अट् + व्यथ् + इन् + इच् + त। व्यथ दुःखभयचलनयोः' (१।४९०) धातु से इन् प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।।६०५।
६०६. जनिवध्योश्च [३४६६] [सूत्रार्थ] इच् प्रत्यय के परे रहते जन् तथा वध् धातु को नित्य ह्रस्व होता है।।६०६ । [दु० वृ०]
इच्–मात्रमिह वर्तते। जनिवध्योरिचि परे नित्यं ह्रस्वो भवति। अजनि. अवधि। यद्यपि बन्धने वधिस्तथापीचि हिंसायाम्। तथा च – भक्षकश्चेन्नास्ति वधकोऽपि न विद्यते। वधि: प्रकृत्यन्तरम् इति एके।।६०६।
[दु० टी०]
जनि० । इच्मात्रमिह वर्तते इति। अन्यथा होकयोगे चकारेण मानुबन्धानामनुवर्तनं भविष्यतीति भावः। तस्मादनन्तरम् इच् वर्तते न कारितमित्यर्थः। हन्तेरादेशस्य वधेर्दीर्घ एव नास्तीति वक्ष्यति, तस्मादाह – यद्यपि बन्ध बन्धने इत्यादि। गणेऽपठितोऽपि वधिहिंसायां धातुतिव्य इत्याह-वधिरित्यादि ।।६०६।
[वि० प०]
जनि० । इच्मात्रमिह स्मर्यते इति। इजेव इमात्रं तदिह वर्तते, न कारितमित्यर्थः। यदि पुनरिह कारितमप्यनुवर्तते तदा पूर्वेण सहाभिन्नार्थत्वाज्जनिवध्योश्चेति वेत्येकमेव सूत्रं विदध्यात्। चकारेण मानुबन्धानुकर्षणं भविष्यति, तटयुक्तम्। एकयोगे हि जनिवध्योरपि