________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपादः
[दु०वृ०]
मानुबन्धानां धातूनामिचि कारिते परे ह्रस्वो भवति वा । अघटि, अघाटि। अव्यथि, अव्याथि। 'क्षजि गतौ दाने च दक्ष हिंसायां च ' (१४९५, ४९६) इति घटादिपाठबलाद् अनुपधाया अपि दीर्घत्वम् । तेन अक्षञ्जि, अक्षाञ्जि । अदक्षि, अदाक्षि ।। ६०५ । [दु० टी० ]
इचि० । ननु कारिते प्रागेव ह्रस्वे कृते पश्चादिचि दीर्घस्याभावात् कथमिचि परे कारिते विभाषया ह्रस्व उच्यते ? सत्यम् । इचीति विषयसप्तमी, तेन बुद्धिस्थमिचः परत्वं भवतीति न दोष: । वचनात् पूर्वेण प्राप्तोऽपि वा ह्रस्वो न भवति । अशंशमि, अशंशामि' इति चेक्रीयितान्ताद् इनि कृते " अस्य च लोप: " (३ । ६ । ४९) इति परसप्तम्यामपि न स्थानिवद्भाव इति दीर्घविधित्वात् । एवम् 'अशमि, अशामि' इति शमेरिनन्तात् शमयन्तं प्रयोजितवानिति द्वितीये इनि कारितस्य संज्ञाशब्दत्वात् कारितमात्रे भवतीति कुतः प्रथमकारितलोपस्य स्थानिवद्भावेनोपधाह्रस्वविघात इति जातेराश्रयणाद् वा 'हेड वेष्टने' (१ । ५०३) इत्यत्र तु 'अहिडि, अहेड' इति भवितव्यमेवेति मतम् । यस्तु ह्रस्वं कृत्वा दीर्घं विधत्ते, तस्य 'अहिडि, अहोडि' इति कुतः एकारस्थिति:, तदपि मतमुच्यते । वाशब्दोऽत्र समुच्चये इति ह्रस्वो वा दीर्घश्च वा भवतीत्यर्थः । एवं सति संयोगान्तेऽपि न विरोधः। 'कदि क्रदि क्लदि वैक्लव्ये' (१।४९८)। अकन्दि, अकान्दि । अक्रन्दि, अक्रान्दि । चण्परे कारिते इनीचीति कार्यं दृश्यते, अभिधानलक्षणत्वात् । कृतः णम् चाभीक्ष्ण्ये द्विश्च पदम् घटं घटम्, घाटं घाटम्। व्यथं व्यथम्, व्याथं व्याथम्।। ६०५।
१०९
-
-
[वि० प० ]
इचि०। इचीति विषयसप्तमीयम् अनुत्पन्ने बुद्धिस्थ एव प्रत्यये विकल्प इति कुतः पुनरिदं चोद्यम् । अन्तरङ्गत्वात् प्रागेव कारिते ह्रस्वे कृते कथं विभाषेति ।। ६०५ ।
[समीक्षा]
'अघटि, अघाटि, अव्यथि, अव्याथि' आदि अद्यतनीविभक्ति में इच्प्रत्ययान्त शब्दों के सिद्ध्यर्थ वैकल्पिक ह्रस्व अथवा वैकल्पिक दीर्घ की अपेक्षा होती है । एतदर्थ कातन्त्रकार ने वैकल्पिक हस्व तथा पाणिनि ने वैकल्पिक दीर्घ का विधान किया है। उनका सूत्र है “चिण्णमुलोर्दीर्घोऽन्यतरस्याम्" ( अ० ६ । ४ । ९३) । वस्तुतः पूर्ववर्ती सूत्र में ह्रस्वविधि निर्दिष्ट होने के कारण प्रकृत सूत्र में भी उसी का विधान समीचीन प्रतीत होता है - कार्यसिद्धि की दृष्टि से । ऐसी स्थिति में उससे भिन्न मार्ग का आश्रय ना विविधता के अतिरिक्त और कोई वैशिष्ट्य नहीं कहा जा सकता है।
[विशेष वचन ]
१. क्षजि गतौ दाने च दक्ष हिंसायां चेति घटादिपाठबलादनुपधाया अपि दीर्घत्वम्। तेन अक्षञ्जि, अक्षाञ्जि । अदक्षि, अदाक्षि (दु० वृ०) ।