________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपाद: विकल्प: स्यात्, अतो नित्यार्थ एव पृथग्योग इति कथन्न स्यात् ? नैवम्। मानुबन्धत्वादेव सिद्धे जनेरुपादानं नित्यार्थमिति चेत्? नैवम्। घटादौ 'जनी प्रादुर्भावे' (३।९४) इति पठ्यते न 'जन जनने' (२८०) इति। एतदर्थो जने: पुन: पाठ: स्यात् तदयुक्तम्। अस्य पाठेऽप्यस्मिन् विकल्पे रूपद्वयमेव साध्यम्, तच्च घटादिपाठनेव सिद्धम्, अर्थरूपयोरभेदात्। तस्मादेकयोगेऽपि जनेर्न विकल्पः, तत्साहचर्याद् वधेरपि नित्यम्, अत: पृथग्योगादनन्तर इजेव वर्तते इति। तर्हि इचा सहेकयोगनिर्दिष्टो वाशब्दः कथमिह न वर्तते इति चेत्, नैवम्। इनिच्समुदायसम्बद्धं वाग्रहणमपि तन्निवृत्तौ निवर्तते इति नित्यं भवति। अथवा 'इष्टितो ह्यधिकाराणां प्रवृत्तिनिवृत्ती स्याताम्' (चा० परि० ४३) इति वा न दोषः।
अन्ये तु 'जन जनने' (२८०) इत्यस्य न भाषायां प्रयोगः इति मन्यन्ते, शर्ववर्मणस्तु मतं लक्ष्यते भाषायामपीति। तथा च "इड्जनो: सध्वे च" इति सार्वधातुके इडागमार्थ वचनमुक्तम्। वृत्तिकारोऽपि जजनानीत्यादिकमदाहरति जौहोत्यादिकत्वादि। जने: “दीपजन०" इत्यादिना योगविभागाद् वधेश्च "भावकर्मणोश्च" (३।२।३०) इतीचि कृते "अस्योपधा०" (३।६।५) इत्यादिना दीर्घत्वे सत्यनेन ह्रस्व इति।।६०६।
[बि० टी०]
जनि० । यद्यपि बन्धने वधिरिति वृत्तिः। न किमर्थमिदं वक्तव्यम्- “अद्यतन्याञ्च" (३। ४। ८३) इत्यनेन हन्तेर्वधिरादेश: क्रियते, तस्यात्र ग्रहणे सति ह्रस्वो भविष्यति, हनधातोहिँसार्थत्वादिति नैवम । तत्र इनिर्देशस्य स्वरूपग्राहकत्वाद् विरूपं न भविष्यतीति व्याख्येयम्। ततश्च दीर्घः प्राप्नोति तत्रैव ह्रस्वः क्रियते यदि दीर्घो न स्यात्तदा कथमिदं न्याय्यम्, तर्हि "अद्यतन्यां च" (३।४।८३) इत्यनेन हन्तेर्वधिरादेशे कृते इनिर्देशस्य स्वरूपग्राहकत्वाद् दीर्घो न भविष्यति। तदाह- अवधीदिति सिद्धम्, किं वधेरुपादानेनार्थकृतलाघवं भविष्यति। नैवम्, “सिद्धिरिज्वद् ञ्णानुबन्धे" (४। १ । १) इत्यत्र ‘वधः, वधकः' इति ह्रस्वनिर्देशमनर्थकमेव स्यात्, अनेनैव सिद्धे ‘वधः' इति सिद्धौ दीर्घाभावात् तस्माद् अद्यतन्यामेव कृतार्थ:? सत्यम्, ‘वध बन्धने' इत्यस्मान्निन्दायां सनो विधानाद् अद्यतन्यादयो नाभिधीयन्ते इत्युक्तम्। इह वधिग्रहणाद् हिंसायामभिधीयते।।६०६।
[समीक्षा
'अजनि, जनकः, अवधि, वधक:' इत्यादि शब्दरूपों के सिद्धयर्थ ह्रस्वादेश करने की आवश्यकता होती है, इसकी पूर्ति दोनों ही आचार्यों ने की है। पाणिनि का सूत्र है- “जनिवध्योश्च'' (अ० ७।३।३५)। अन्तर यह है कि कातन्त्रकार पहले दीर्घ का विधान करके ह्रस्व का निर्देश करते हैं तथा पाणिनि प्राप्त वृद्धिविधान का निषेध कर देते हैं। अत: उभयत्र समानता ही है। वृत्तिकार दुर्गसिंह ने कहा है कि यद्यपि 'वध' धातु बन्धन अर्थ में पठित है तथापि इच् प्रत्यय में वह हिंसार्थक मानी जाती है। अन्यथा ‘वधक:' का अर्थ 'हिंसक:' नहीं हो पाएगा, जो कि इस वचन में वाञ्छित है- 'भक्षकश्चेन्नास्ति वधकोऽपि न विद्यते'।