________________
१०६
कातन्त्रव्याकरणम्
ज्वल–ह्वल—मल–नमोऽनुपसर्गा वा ज्वलयति, ह्वलयति, हमलयति, नमयति। पक्षे— ज्वालयति, ह्वलयति, मलयति, नामयति ।
सोपसर्गास्तु नित्यं मानुबन्धाः । 'ज्वल दीप्तौ ' (१ । ५१९) घटादिः – प्रज्वलयति। तथा 'ह्वल ह्मल चलने' (१।५२० ) - प्रह्वलयति, प्रह्मलयति । अमन्तत्वाद् उपनमयति। ग्लास्नावनुवमश्च। ग्लपयति, ग्लापयति । स्नपयति, स्नापयति । वनयति, वानयति । वमयति, वामयति। अनुपसर्गा इति किम् ? प्रग्लापयति, प्रस्नापयति, उपवनयति, उद्वमयति। न कम्यमिचमः । कामयति, आमयति, चामयति । शमोऽदर्शने । शमयति रोगान्। दर्शने तु न भवति निशामयति रूपम् । स्खदिरवपरिभ्यां च । अवस्खदयति, परिस्खदयति। अवपरिभ्यामेवेति नियमादन्योपसर्गान्न भवति । प्रस्खादयति, उपस्खादयति । 'फण गतौ' (१।५३८) पठ्यते मानुबन्धश्च - फणयति । गतेरन्यत्र न भवति – फाणयति फाण्टम्। अन्ये सुगमा इति नोदाहृताः । कथम् उद्घाटितः कपाट: चौरस्योत्क्राथयतीति ? घञन्तादिन्। संक्रामयतीति । शन्तङन्तादिन् ।। ६०४।
-
-
-
[दु० टी० ]
मानु०। घटादयो मानुबन्धा अन्वाख्याताः इति पूर्वे गणकारा येषां प्रत्येकं मकारानु– बन्धत्वमुपदिष्टवन्तस्ते घटादयो मानुबन्धाः लाघवायान्वाख्याताः अर्वाग्गणकृतेत्यर्थः । 'हेड वेष्टने' (१।५०३) इति पाठसामर्थ्याद् ह्रस्वत्वे सत्युपधालक्षणो गुणो न भवतीति हिडयति। कगे इत्यादि। कगे धातुरनिर्दिष्टार्थ इति यावत् । चन चेत्यादि । 'श्रथ क्रथ क्लथ हिंसार्थाः' (१। ५१६) इत्यतो हिंसार्थ: सम्बध्यते इति भावः । वनु च कगेवदिति । वनुधातोरनिर्दिष्टार्थो मानुबन्ध इत्यर्थः । 'स्मृ आध्याने ' (१ । ५२१ ) इति आ समन्ताद् ध्यानम् आध्यानम्। ननूपधालक्षणो रन्जेर्दीर्घ एव नास्ति कथं ह्रस्वः ? सत्यम्, अस्य मानुबन्धसंज्ञा ज्ञापयति – रन्जेरनुषङ्गलोषोऽस्ति ज्ञापकज्ञापिताश्च लक्ष्यमनुसरन्तीत्याह रन्जेरित्यादि। ‘“न कम्यमिचमः” (१ । ५३४) इति 'कमु कान्तौ, अम रोगे, अदने' (१ । ४०५, १४०, १५६), अमन्तत्वान्मानुबन्धसंज्ञाप्राप्तौ प्रतिषिध्यते । “शमोग्दर्शने” इति। अदर्शन एव मानुबन्धसंज्ञेत्यर्थः ।
,
चमु
धातुपारायणिकास्तु प्रतिषेध एव सम्बध्नन्ति । दर्शने मानुबन्धसंज्ञा न भवतीत्यर्थः। घोषवल्लक्षणमुत्वमिह। यमोऽपरिवेषणे इति यमोऽपरिवेषणे मानुबन्धसंज्ञा न भवतीत्यर्थः । तदा प्रत्युदाहरणं मूलोदाहरणं भवति अर्थात् । स्खदिरवपरिभ्यां चेति । अत्रापि 'स्खद स्खदने' (१। ४९४) इत्यस्य मानुबन्धसंज्ञा न भवतीत्यर्थः । 'फण गतौ ' (१ । ५३८) इति उपयमनेन ज्ञाप्यते—धातुत्वं मानुबन्धत्वं चेत्यर्थः । 'फण गतौ ' (१ । ५३८) इत्यस्य तु एके मानुबन्धसंज्ञां नेच्छन्ति, गतावपि फाणयतीत्याहुः । तेषाम् अस्मात् पूर्वं वृत्करणम् । संक्रामयतीति शन्तङन्तादिन्निति संक्रामन्तमाचष्टे इति विवक्षयापि भवतीत्यर्थः । 'चह शाठ्ये' (९। १००, १८६) केचिन्मानुबन्धत्वमिच्छन्ति–चहयति।। ६०४।