________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपादः
५९२. तृफल भजत्रपश्रन्थिग्रन्थिदन्भीनां च [ ३ | ४| ५२ ]
[ सूत्रार्थ ]
परोक्षाविभक्तिसंज्ञक अगुण सेट् थल् प्रत्यय के परे रहते 'तृ- फल्भज्–त्रप्–श्रन्थ्–ग्रन्थ्' एवं 'दन्भ्' धातुओं में अकार को एकारादेश तथा अभ्यासलोप होता है।। ५९२। [दु० वृ०]
८९
तृप्रभृतीनाम् अत एत्त्वं भवति, अभ्यासलोपश्च परोक्षायामगुणे थलि च सेटि परतः। गुण्यादेशादिसहायव्यञ्जनत्वाद् वचनम् । तेरतुः, तेरिथ । फेलतु:, फेलिथ । भेजतुः, भेजिथ । त्रेपे, त्रेपाते, त्रेपिरे । श्रेथतुः, ग्रेथतुः, देभतुः । अनुषङ्गलोपिनां मध्ये दभेरेवेति नियमात् – ममध्वान् । निरनुषङ्गैः साहचर्यात् 'शश्रन्थिथ, जग्रन्थिथ, ददम्भिथ' इत्यनुषङ्गिणां न स्यात् । अगुण इति किम् ? अहं ततर। जृभ्रमुत्रसिस्वनफणस्यमां वा वक्तव्यम्। 'जेरतु:, जजरतुः। जेरिथ, जजरिथ' इत्यादि ।। ५९२।
[दु० टी० ]
-
तृफल० । तेरतुरिति। ‘तॄ प्लवनतरणयोः' (१।२८३), "ऋदन्तानां च " (३ ६ १९१६) इति गुणोऽकारस्यैत्त्वम् । फेलतुरिति । 'फल निष्पत्तौ दल ञि फला विशरणे' (१।१७६, १६५) वा, ‘“द्वितीयचतुर्थयोः प्रथमतृतीयौ” (३ । ३ । ११) इत्यादेशादिस्तथा भेजतुरिति । 'भज श्रिञ् सेवायाम्, त्रपूष लज्जायाम्, श्रन्थ ग्रन्थ सन्दर्भे, दन्भु दम्भे' (१ । ६०४, ३८३; ८। ३३; ४ । १९ ) । एषां सहायव्यञ्जनमध्ये कार इत्याह – गुणीत्यादि । दन्भिग्रहणं किमर्थम्, नलोपे सत्याकारोऽसहायव्यञ्जनमध्य इति ? सत्यम्, नियमार्थं दन्भेरेवेति। न पुनः प्रकृतिनियमः । अनुषङ्गलोपिनां मध्ये "दन्भेः परोक्षायामेव” इति व्यावृत्तेरभावादित्याह – अनुषङ्गीत्यादि । 'मन्थ विलोडने' (८।३४), क्वन्सुकानयोरनुषङ्गलोपं प्रतिपादयिष्यामः। निरनुषङ्गैरित्यादि मतम् अनुषङ्गलोपविधावेव वर्णयिष्यामः । ' नृष भृष वयोहानौ' (१।५३१), एवं ' भ्रमु चलने ' (१।५५८), भ्रमतुः बभ्रमतुः । भ्रमिथ, बभ्रमिथ। ‘त्रसी उद्वेगे’ ( ३।८) – सतुः, तत्रसतु:, त्रेसिथ । 'स्वन ध्वन शब्दे, फण गतौ ' (१।५४१, ५३८), स्वेनतुः, सस्वनतुः । स्वनिध, सस्वनिध । फेणतुः, पफणतुः । फेणिथ, पफणिथ । स्येमतुः सस्यमतुः । स्यमिथ, सम्यमिथ। वक्तव्यम् = व्याख्येयम् । चकारोऽनुक्तसमुच्चये । श्रन्थिग्रन्थिदन्भेरिति समाहारात् सुखपाठे सिद्धे बहुवचनं वा गणार्थमिति मण्डूकप्लुत्यात्र व्यवस्थितविभाषाधिकर्तव्या । अन्य आह अन्य नेच्छन्ति एके इच्छन्तीति उभयमतमत्रावलम्बितम् ।। ५९२ ।
"
-
[वि० प० ]
तृफल० । तेरतुरिति। “ॠदन्तानां च " (३६ । १६) इति गुणोत्र, "नशसददवादिगुणिनाम्” (३५५४) इति प्रतिषेधः प्राप्तः । 'फल निष्पत्तौ दल त्रिफला विशरणे' (१९७६, १६५) इत्युभयोरपि ग्रहणम्। न ह्यत्र निरनुबन्धग्रहणे न सानुबन्धकस्येत्यादृतम्। “फलभजोर्द्वितीयचतुर्थयो: "