________________
कातन्त्रव्याकरणम्
इत्यादिना आदेशादित्वादप्राप्तेः। "त्रपादीनां च" सहायव्यञ्जनत्वादिति। अत एवोक्तम् , गुण्यादेशादिसहायव्यञ्जनत्वाद् वचनमिति “परोक्षायामिन्धिश्रन्थिग्रन्थिदन्भीनामगुणे" (३।६।३) इति श्रन्थादेरनुषगलोपः। दन्भेरनुषगलोपे सत्यसहायव्यञ्जनमस्ति पूर्वेणैव सिद्धत्वात् किमनेनेति ? सत्यम्। नियमार्थमित्याह -- अनुषङ्गिणामित्यादि। ममथ्वानिति। 'मन्थ विलोडने' (८।३४), क्वन्सुः, कानुबन्धत्वाद् अनुषङ्गलोपः। जृ इत्यादि। एवं भ्रेमतुः, भ्रमिथ। सतुः, त्रेसिथ। स्वेनतुः, स्वेनिथ। फेणतः, फेणिथ। स्यमतः, स्येमिथ। पक्षे–'बभ्रमतुः, बभ्रमिथ' इत्यादि। वक्तव्यम् व्याख्येयम्। इह चकारस्यानुक्तसमुच्चयार्थत्वात् सिद्धमित्यर्थः।। ५९२।
[बि० टी०]
तृफल० । अनुषङ्गलोपिनामिति वृत्तिः। ननु ममथ्वान्' इति कथं सिद्धम्। “परोक्षायामिन्धि०" (३।६।३) इत्यस्य व्यावृत्तिबलादेवानुषङ्गलोपो न स्यात् ? सत्यम् । परोक्षावद्भावाद् वत्करणं स्वाश्रयकार्यमपि बोधयति। किञ्च कार्यिनिमित्तयोद्युत्क्रमनिर्देशो बोधयति –
आतिदेशिके न नियमः। कश्चित् क्वन्सोर्द्विकानुबन्धं वर्णयति। वस्तुतस्तु यण्वद्भावमाश्रित्यानुषङ्गलोपः, न परोक्षावद्भावात् ।। ५९२ ।
[समीक्षा]
'तेरतुः, तेरिथ, फेलतुः, फेलिथ' इत्यादि शब्दरूपों की सिद्धि एत्त्व-अभ्यासलोप के विना नहीं हो सकती, अत: दोनों ही व्याकरणों में इसका विधान किया गया है। पाणिनि के सूत्र हैं – “तृफलभजत्रपश्च, राधो हिंसायाम्, वा भ्रमुत्रसाम्, फणां च सप्तानाम्' (अ० ६४१२२-१२५)। दोनों व्याकरणों में धातपरिगणन भिन्नरूप में हुआ है। सूत्रसंख्या की दृष्टि से कातन्त्र के एक सूत्र की तुलना में पाणिनीय के चार सूत्र गौरवाधायक ही कहे जा सकते हैं।
[विशेष वचन
१. चकारोऽनुक्तसमुच्चये। श्रन्थिग्रन्थिदन्भेरिति समाहारात् सुखपाठे सिद्धे ‘बहुवचनं वा गणार्थमिति मण्डूकप्ल्त्यात्र व्यवस्थितविभाषाधिकर्तव्या (दु० टी०)।
२. अन्य आह - अन्ये नेच्छन्ति एके इच्छन्तीति उभयमतमत्रावलम्बितम् (दु० टी०)। ३. इह चकारस्यानुक्तसमुच्चयार्थत्वात् सिद्धमित्यर्थ: (वि० प०)। [रूपसिद्धि
१. तेरतुः। तृ + अतुस्। 'तृ प्लवनतरणयो:' (१।२८३) धातु से परोक्षाविभक्तिसंज्ञक प्रथमपुरुष-द्विवचन 'अतुस्' प्रत्यय, अन् विकरण, द्वित्व, अभ्याससंज्ञा, “ऋदन्तानां च'' (३६१६) से गुण-अर् तथा प्रकृत सूत्र से एत्व-अभ्यासलोप।
२. तेरिथ। तृ + थल। 'तृ प्लवनतरणयोः' (१।२८३) धातु से परोक्षाविभक्तिसंज्ञक मध्यमपुरुष-एकवचन 'थल्' प्रत्यय, इडागम तथा अन्य प्रक्रिया पूर्ववत्।।
____३. फेलतुः। फल + अतुस्। ‘फल निष्पत्तो, जि फला विशरणे' (११७६, १६५) धातु से 'अतुस्' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।