________________
कातन्त्रव्याकरणम्
[दु० वृ०]
थलि च सेटि परतोऽनादेशादेर्धातोरस्यैकव्यञ्जनमध्यगतस्यैत्त्वं भवति अभ्यासलोपश्च। पेचिथ, नेमिथ। सेटीति किम् ? पपक्थ। अनादेशादेरिति किम् ? बभणिथ। एकव्यञ्जनमध्यगतस्येति किम् ? विव्ययिथ।। ५९१ ।
[दु० टी०]
थलि० । 'नित्यात्वतां स्वरान्तानां सृजिदृशोश्च वेट थलि' इति वक्ष्यति, ‘सेटि' इत्यनेन परोक्षा विशिष्यते चेद् गुण्यर्थोऽयमारम्भः इति थलीति विज्ञायते। 'पेचिव, पेचिम' इति पूर्वेणैव सिद्धं थल्ग्रहणमिह सुखार्थम् । चकारेण चोत्तरत्र परोक्षाधिकर्तव्या, अन्यथा थलेव वर्तते। सहग्रहणं च सुखार्थमेव।। ५९१ ।
[वि० प०]
थलि। 'नित्यात्वतां स्वरान्तानाम्' इत्यादिना वक्ष्यमाणवचनेन थलि वेट । विव्ययिथेति। तत्रैव "वृव्येऽदां नित्यमिट थलि" इति नित्यमिट्। “न व्ययते: परोक्षायाम्" (३।४।२१) इत्यात्त्वप्रतिषेधः। “परोक्षायामभ्यासस्य" (३।४।४) इत्यादिनाऽभ्यासे सम्प्रसारणम्।। ५९१ ।
[बि० टी०]
थलि च। नन् “इटि च" (३।४।२८) इति कृते प्रस्तृतपरोक्षायामगणे पूर्वेणेव सिद्धे गुणिनि भवन् थलीति लभ्यते। थल्ग्रहणं सेड्ग्रहणं च सुखार्थमिति प्रदीपः।। ५९१ ।
[समीक्षा]
'पेचिथ, शेकिथ, नेमिथ' इत्यादि शब्दरूपों के सिद्ध्यर्थ एकारादेश तथा अभ्यासलोप की आवश्यकता होती है। इसकी पूर्ति दोनों ही व्याकरणों में की गई है। पाणिनि का सूत्र है – “थलि च सेटि' (अ०६४१२१)। इस प्रकार सूत्र और कार्य के समान होने से उभयत्र एकरूपता ही कही जाएगी।
[विशेष वचन] १. थल्ग्रहणमिहं सुखार्थम् (दु० टी०)। २. सहग्रहणं च सुखार्थमेव (दु० टो०)। ३. थल्ग्रहणं सेड्ग्रहणं च सुखार्थमिति प्रदीप: (बि० टी०)।. [रूपसिद्धि
१. पेचिथ। पच् + इट् + थल्। 'डु पचष् पाके' (१६०३) धातु से परोक्षाविभक्तिसंज्ञक परस्मैपद-मध्यमपुरुष–एकवचन 'थल्' प्रत्यय, “नित्यात्वतां स्वरान्तानाम्'' से इडागम, द्विर्वचन, अभ्याससंज्ञा, धातुघटित अकार को एकार तथा अभ्यासलोप।
२. नेमिथ। नम् + इट् + थल्। ‘णम् प्रह्वत्वे शब्दे च' (१ । १५९) धातु से परोक्षा मध्यमपुरुष–एकवचन 'थल्' प्रत्यय, इडागम, द्विर्वचनादि, एत्व तथा अभ्यासलोप।। ५९१ ।