________________
७६
कातन्त्रव्याकरणम्
स्पष्टार्थमेव क्र्यादिग्रहणम्भवति। अथ विकरणग्रहणं किमर्थ क़यादोनां धातूनामाकरस्यासम्भवात् , जानन्तीत्यत्र "ज्ञश्च" (३६।८२) इति जादेशस्याकारकरणसामर्थ्यादाकारलोपाभावेऽर्थात् ज़्यादीनां विकरणाकार इति गम्यते इत्याह- विकरणस्येति। यद्विकरणग्रहणं तद्विकरणस्य य आकारस्तस्य लोप इति प्रतिपत्त्यर्थम्, अन्यथा कार्यिणः प्रतिपत्तिरेव स्यादिति। इह यद्यपि उक्तंन न्यायेन विकरणाकारस्येति दर्शितम् तथापि व्यामोहः स्यादित्यर्थ: ।। ५८२ |
[बि० टी०]
त्यादीनाम्।। जानन्तीति पञ्जी। नन्वत्र "ज्ञश्च" (३।६।८२) इति जादेशे कृतेऽनेनाकारलोप: कथ न स्यात्। आकारकरणसामर्थ्यादिति चेत्, जानातीत्यादौ प्रयोजनम्। अत्र उमापतिः -
'ज्ञश्चेत्यस्मिन् जाकरणं किमर्थं ज्ञो ओ लुक् स्याच्चेति कृतेऽपि सिद्धिः'।
अस्यार्थः – ज्ञाधातोर्डकारो लुग् भवतीत्युक्तेऽपि जानातीत्यादे: सिद्धिः। न च साध्यमन्यव्याजेन साधितमिति दोषः। तथा च टीकाकारः - साध्यम् अन्यव्याजन साधयितुं युज्यते, तस्माज्जकारेण किम्, जारूप एव तिष्ठति नान्यत्। तथा च वाचस्पति: - ननु जा जानेर्विकरणे इत्यास्तां ततो 'वान्तस्य विधि:' (का० परि० ५) इति न्यायात् सिध्यति। "ज्ञश्च" (३।६।८२) इत्यत्र ज्ञो जलुकं कृत्वा जादेशो बोधयति, जारूप एव तिष्ठति नान्यदिति। किञ्च "ज्ञश्च'' इति क्रियताम्, आकारोऽनुवर्तते आकारकरणस्य सस्वरत्वात् 'अन्त्याभावेऽन्त्यसदेशस्य ग्रहणम्' (का० परि० ३९) भविष्यति। यद् वा ज्ञो जिति क्रियताम् , ज्ञाधातुर्बनुबन्ध: स्यादित्यर्थः इत्यभिमतसिद्धेनाकारो लुप्यते। यत्तु पञ्जीकृता सामर्थ्यादित्युक्तम्, तच्च सकृद्गतन्यायेन। हेमकरस्तु आकारकरणस्य फलमाह, अन्यथा ज्ञो जिरिति विदध्यात्। वस्तुतस्तु ज़्यादीनामिति बहुवचनं बोधयति - विकरणाकारस्यैव लोपः। अथ ज़्यादीनामप्याकारलोप: स्यात् ? सत्यम्, बहुव्रीहौ ज़्यादीनामित्युपलक्षणत्वाद् उपलक्षणस्य कार्येऽनुपयोगित्वात्। यथा चित्रगुरानीयतामिति।। ५८२।
[समीक्षा]
'लुनते, लुनताम्, क्रीणते, प्रीणते, प्रीणन्ति' इत्यादि शब्दरूपों के सिद्ध्यर्थ त्र्यादिगणपठित धातुओं से होने वाले 'ना' विकरण में आकार के लोप की आवश्यकता होती है, इसका विधान दोनों ही व्याकरणों में उपलब्ध है। पाणिनि का सूत्र है - "श्नाभ्यस्तयोरात:' (अ० ६।४११२)। अन्तर यह है कि पाणिनि ने श्नाविकरण तथा अभ्यस्तसंज्ञक शब्द (धातु का द्वित्वरूप) में विद्यमान आकार के लोपार्थ एक ही सूत्र बनाया है, जब कि स्पष्ट अवबोधार्थ कातन्त्रकार ने दो पृथक् सूत्र बनाए हैं। त्र्यादिगणपठित धातुओं से किया जाने वाला विकरण पाणिनीय व्याकरण में शकारानुबन्धविशिष्ट है, परन्तु कातन्त्रव्याकरण में यह अनुबन्धरहित है।