________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपादः
७५
४. जिहताम्। हा + अन्लुक् + अन्ताम्। 'ओ हाङ् गतौ' (२ । ८७) से पञ्चमीसंज्ञक ‘अन्ताम्’ प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।
५. दत्ते । दा + अन्लुक् + ते। 'डुदाञ् दाने' (२ । ८४) धातु से वर्तमानाविभक्तिसंज्ञक आत्मनेपद-प्रथमपुरुष—एकवचन 'ते' प्रत्यय, अन्लुक्, द्विर्वचनादि, ह्रस्वः” (३।३९५) से ह्रस्व, प्रकृत सूत्र से आकारलोप तथा "अघोषेष्वशिटां प्रथमः " ( ३।८।९) से दकार को तकार । ६. धत्ते । धा + अन्लुक् + ते । 'डु धाञ् धारणपोषणयो:' (२।८५) धातु से 'ते' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।। ५८१ ।
५८२. क्र्यादीनां विकरणस्य [३ २४ २४२ ]
[ सूत्रार्थ]
क्र्यादिगणपठित धातुओं से अगुण सार्वधातुकसंज्ञक प्रत्यय के परे रहते विकरणघटित आकार का लोप होता है ।। ५८२ ।
[दु० वृ०]
क्र्यादीनां धातूनामगुणे सार्वधातुके परे विकरणाकारस्य लोपो भवति । क्रीणते, क्रीणन्ति । प्रीणते, प्रीणन्ति । कथं स्तभ्नन्तीति ? उपलक्षणत्वात् । क्र्यादीनामिति किम् ? दीव्यामः, सीव्यामः । विकरणस्येति सुखप्रतिपत्त्यर्थम् । अगुण इति किम् ? क्रीणाति ।। ५८२ ।
[दु० टी० ]
क्र्यादीनाम् ० । विकरणस्येति सुखप्रतिपत्त्यर्थम् इति । क्र्यादीनां व्यक्तीनामाकारस्यासम्भवात् जानन्तीत्यत्र च जादेशस्य दीर्घत्वस्य सामर्थ्याद् विकरणाकारस्य लोपो भवति, किन्तु कार्यित्वप्रतिपत्तिरेव न भवतीत्यर्थः । “नाभ्यस्तयोराकारस्य" इति कृ उभयेषामिति वचनं न विधेयं स्यात् । स्तभ्नन्तीत्याद्यर्थं क्र्यादिग्रहणं विकरणोपलक्षणार्थमित्यपि मतं न वर्णितं स्यात् । स्नान्ति' इत्यत्रापि 'अर्थवद्ग्रहणे नानर्थकस्य' (का० परि० ४ ) इति 'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' (का० परि० ७५) तथा 'म्ना अभ्यासे' (१।२६८) इति " म्नो मनः " (३। ६ । ७४) इति ‘मनाव:, मनाम:' इति, नैवम्, प्रतिपत्तिर्गरीयसीति ।। ५८२ ।
[वि० प० ]
"
क्र्यादी० । उपलक्षणत्वादिति । 'क्र्यादीनां विकरणस्य' इत्यनेन ना-विकरण उपलभ्यते । तेन “स्तन्भु-स्तुन्भु - स्कन्भु - स्कुन्भु - स्कुभ्यो नुश्चेति वा वक्तव्यम्" इत्यनेनापि विहितस्य नाविकरणस्याकारलोपो भवति । ननु तत्र स्तन्भादीनां क्रयादिकत्वाभ्युपगमादेव पक्षे नाविकरण इति वक्तव्यार्थो दर्शितः, ततः क्रयादिकत्वादेव सिद्धो लोपः किमुपलक्षणेन ? सत्यमेतत्, किन्तु मन्दधियस्तु गणपठितानेव क्रयादिकान् मन्यन्ते इत्युपलक्षणमुच्यते । ननु विकरणस्येत्युक्तेऽर्थात् क्रयादिकानामिति गम्यते । न ह्यन्येषां धातूनां विकरणाकार: सम्भवति, नैवम्। यदा " अस्य वमोर्दीर्घः” (३।८।११) इति यनोऽकारस्य दीर्घस्तदापि स्यादित्याह- क्र्यादीनामिति । यदि पुनरिह लाक्षणिकत्वादेव न भवतीत्युच्यते तदा