________________
७७
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपाद: [विशेष वचन] १. विकरणस्येति सुखप्रतिपत्त्यर्थम् (दु० वृ०)। २. प्रतिपत्तिर्गरीयसीति (दु० टी०)। ३. मन्दधियस्तु गणपठितानेव क्रैयादिकान्मन्यन्ते इत्युपलक्षणमुच्यते (वि० प०)। ४. तदा स्पष्टार्थमेव व्रयादिग्रहणं भवति (वि० प०)।
५. यद् विकरणग्रहणं तद्विकरणस्य य आकारस्तस्य लोप इति प्रतिपत्त्यर्थम. अन्यथा कार्यिण: प्रतिपत्तिरेव स्यादिति। इह यद्यपि उक्तेन न्यायेन विकरणाकारस्येति दर्शितं तथापि व्यामोह: स्यादित्यर्थः (वि० प०)।
६. वस्तुतस्तु क़्यादीनामिति बहुवचनं बोधयति विकरणाकारस्यैव लोप: (बि० टी०)। ७. बहुव्रीहौ ज़्यादीनामित्युपलक्षणत्वादुपलक्षणस्य कार्येऽनुपयोगित्वात् (बि० टी०)। [रूपसिद्धि
१.क्रीणते। क्री + ना + अन्ते। डु क्रीञ् द्रव्यविनिमये' (८।१) धातु से वर्तमानाविभक्तिसंज्ञक प्रथमपुरुष-बहुवचन 'अन्ते' प्रत्यय, “ना ज़्यादेः' (३।२।३८) से 'ना' विकरण, "द्वित्वबहुत्वयोश्च परस्मै" (३। ५। १९) से अगुण, प्रकृत सूत्र से आकारलोप तथा "आत्मने चानकारात्' (३५३९) से 'अन्ते' प्रत्ययगत नकार का लोप।
२. क्रीणन्ति। क्री + ना + अन्ति। 'इ क्रीब् द्रव्यविनिमये' (८। १) धातु से वर्तमानासंज्ञक 'अन्ति' प्रत्यय, ना-विकरण, अगुण तथा आकारलोप।
३. प्रीणते। प्री + ना + अन्ते। 'प्रीञ् तर्पणे कान्तौ च' (८।२) धातु से अन्ते प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।
४. प्रीणन्ति। प्री + ना + अन्ति। 'प्रीञ् तर्पणे कान्तौ च' (८।२) धातु से अन्ति प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।। ५८२।
५८३. उभयेषामीकारो व्यञ्जनादावदः [३।४।४३] [सूत्रार्थ]
अभ्यस्तघटित तथा क्र्यादिविकरणघटित आकार को ईकार आदेश होता है, 'दा' धातु को छोड़कर, अगुण तथा व्यञ्जनादि सार्वधातुकसंज्ञक प्रत्यय के परे रहते।। ५८३ ।
[दु० वृ०]
राश्यपेक्षयोभयशब्दो व्यक्त्यपेक्षया बहुवचनम्। उभयेषामभ्यस्तत्र्यादिविकरणानां दावर्जितानामाकारस्य व्यञ्जनादावगुणे सार्वधातुके परे ईकारो भवति। मिमीते, जिहीते, लुनीते, पुनीते। व्यञ्जनादाविति किम्? मिमते, क्रीणते। अगुण इति किम्? जहाति, क्रीणाति। सार्वधातुक इति किम्? लालायते। अद इति किम्? दत्से, धत्से।। ५८३ ।
[दु० टी०]
उभये० । 'माङ् माने, ओ हाङ् गतौ' (२। ८६, ८७) जुहोत्यादित्वाद् द्विवचनम्। व्यञ्जनादावित्यादिग्रहणं स्पष्टार्थम्।। ५८३ ।