________________
७०
कातन्त्रव्याकरणम् ३. कुर्युः। कृ + उ + युस्। 'डु कृञ् करणे' (७१७) धातु से सप्तमीविभक्तिसंज्ञक प्रथमपुरुष-बहुवचन 'युस्' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।। ५७७ ।
५७८. अस्योकारः सार्वधातुके गुणे [३।४।३८] [सूत्रार्थ]
कृधातुघटित ऋकार को गुण हो जाने के बाद अकार को उकारादेश होता है, अगुण सार्वधातुकसंज्ञक प्रत्यय के परे रहते।। ५७८ ।
[दु० वृ०]
करोतेरकारस्यागुणे सार्वधातुके परे उकारो भवति। कुरुतः, कुर्वन्ति। कथं कुरु ? प्रत्ययलोपलक्षणत्वाद् गुणो नैव स्वरूपनिर्देशात् । सार्वधातुक इति किम् ? सञ्चस्करुः । अगुण इति किम् ? करोमि।। ५७८ ।
[दु० टी०]
अस्यो०। ह्रस्वोऽयमादेशो न दीर्घोऽकुछुरोरिति निषेधात्। गुणो नैवेत्यादि। यदि "नामिनश्चोपधाया लघो:" (३५।२) इति वर्तते, तदा रोकार इति विदध्यादिति भावः। कारग्रहणं निर्देशसुखार्थम्। यस्त्वाह -- कारग्रहणं स्वरूपपरिग्रहार्थम, तदा दीर्घोऽपि न भविष्यति किं कुर्छरोर्दीर्घप्रतिषेधेनेति ? सार्वधातुक इति किम् ? सञ्चस्करुरिति। ऋतश्च संयोगादेरिति परोक्षायामगुणे कृते सत्यकारोऽस्त्येवागुणत्वं प्रसिद्धमिति अगुणनिमित्तं न विहन्यते, यद्येवं विकरणेन करोतिर्विशिष्यते विशेषणेन च तदन्तविधिर्विकरणान्तस्य करोतेरिति। किं सार्वधातुकग्रहणेन करोतेरित्युकारनिर्देशाद् वा।
न च भूतपूर्वसार्वधातुकप्रतिपत्त्यर्थमुच्यते कुर्विति प्रत्ययलोपलक्षणत्वाद् इत्युक्तमेव। यद्यत्र सार्वधातुकग्रहणं न क्रियते तदा अस्तेरित्यत्र भूतवान् इत्यादेर्लोप: स्यात् तदादेशास्तद्वदिति, नैवम्। अत इति नत्रोच्यते इति तिब्बलाद् वा। यच्च “उभयेषामीकारो व्यञ्जनादावदः" (३।४।४४) इत्यत्र सार्वधातुक इति किं लालायते इत्युक्तम्, तत्रापि प्रतिविधीयते आकारणोभये विशिष्यन्ते, 'विशेषणेन च तदन्तविधिः' इत्युभयेषामाकारान्तानामिति। अत्र तु चेक्रोयितान्तस्य द्विर्वचने यकारान्तमभ्यस्तमिति। तर्हि 'यायावरः' इति दुष्यति, यलोपे कृते परिशिष्टस्याभ्यस्तसंज्ञा सन्निविशते, ततः “यातेर्वरः'। “प्रत्ययलुकां चानाम्” (४।१।४) इति गुणप्रतिषेधः । तत्रापि क्र्यादिविकरणस्य साहचर्यात् सार्वधातुकस्यैवाभ्यस्तस्येत्युच्यते। अथ 'येन विधिस्तदन्तस्य' (का० परि० ३) इति, न च तत्रास्ति विकरणस्य समीपत्वात् ? सत्यम्, सम्बन्धेनापि नार्थो भिद्यते विकरणे यः करोतिरिति करोतिमाश्रित्य विकरणो भवतीति आश्रयाश्रयिभावसम्बन्धः।
सार्वधातुक इति किम् ? दरिद्रायकः, दरिद्राणमिति। अस्यायमर्थः – सार्वधातुक इति किमर्थम् “दरिद्रातेरसार्वधातुके" (३।६।३४) इति लोपोऽस्ति, युवारनिटि सनि च