________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपाद: लोपो न दृश्यते। अत्रापि व्यञ्जनादावगुण इति वर्तमानादप्राप्तिरिति नास्ति परिहार इति भावः। अथ मतं कारयामासतुरिति स्वरविधि: स्वरे द्विर्वचननिमित्ते कृते द्विर्वचने “अस्यादेः सर्वत्र" (३।३१८) इति दीर्घ बाधित्वा परत्वादकारलोप: स्यात् तथापि इह नास्ति व्यावृत्तिरिति भावः, अन्यत्रापि सुखप्रतिपत्तिफलमेव सार्वधातुकमिति।। ५७८ ।
[वि० प०]
अस्यो० । ननूकारे कृते “एकदेशविकृतमनन्यवत्' (का० परि० १) इति न्यायात् करोतिरेवायमिति पुन: करोतेरित्युपधाया: ‘यावत्सम्भवस्तावद्विधि:' (का० परि० ५४) इति कथं गुणो न भवतीत्याह-गुणो नैव स्वरूपनिर्देशादिति। अन्यथौकारमेव निर्दिशेदिति भावः। सार्वधातुक इत्यादि। सम्पू र्वः कृञ्, परोक्षाया उस् "सुड् भूषणे सम्पर्युपात्" (३७।३८) इति सुट, द्विवचनम्, "ऋतश्च संयोगादेः" (३६१५) इति गुणे सति आकारोऽस्त्येवेति। यदि पुन: सार्वधातुकग्रहणं न स्यात् तदेहापि स्यादिति। ननु चागुणग्रहणादिहागुणे भवति। अत्र च गुणस्य सद्भावाद् गुण्येवायं प्रत्ययः इति कुतः प्रसङ्ग इति न चोद्यम्। अगुणत्वं हि प्रसिद्धमिह गृह्यते, तच्चास्त्येवेति। "ऋतश्च संयोगादेः” (३६१५) इत्यत्रागुण एव परोक्षाप्रत्यये गुण इति नैतावता तस्य गुणित्वं स्यादिति।। ५७८।
[बि० टी०] अस्यो० । ननु 'मेर्गुणित्वेऽप्यकारो वक्तव्यः' इति वररुचिः। यथा – किं करोमि कथं कुर्मि कुत्र गच्छामि माधव दुर्योधनविहीनं तु सर्वशून्यमिदं जगत्।। इति भारते।
सत्यम्, अगुण इत्यस्य नत्रा निर्दिष्टत्वात्। केचित् तु कार्यिनिमित्तयोव्युत्क्रमनिर्देशं वर्णयन्ति। ननु उकार इति दी? ह्रस्वो वा, उभयथा निर्देशस्य साम्यात् ? सत्यम्। आये नि:सन्देहाथ पृथक् पठेत्। अथ पश्चादप्येवं कथं न स्यादिति चेत् 'कमलवनोद्घाटनं कुर्वते ये' इति प्रयोगात्। अथवा "नामिनो ऊरकुछुरोर्व्यञ्जने" (३।४।१४) इत्यत्र कुर्ग्रहणस्य कुर्याद् इत्युक्तत्वाद् ह्रस्व एवायमिति।। ५७८ ।
[समीक्षा]
'कुरुतः, कुर्वन्ति' इत्यादि शब्दों के सिद्ध्यर्थ कृधातुघटित ऋकार को गुण (अर्) आदेश होने के बाद अकार को उकारादेश करने की आवश्यकता होती है। इसकी पूर्ति दोनों ही आचार्यों ने की है। पाणिनि का सूत्र है – “अत उत् सार्वधातुके" (अ० ६।४।११०)।
[रूपसिद्धि]
१. कुरुतः। कृ + उ + तस्। 'डु कृञ् करणे' (७७) धातु से वर्तमानाविभक्तिसंज्ञक प्रथमपुरुष-द्विवचन ‘तस्' प्रत्यय, "तनादेरु:' (३।२।३७) से उ–विकरण, “करोते:" (३।५।४) से कृधातुघटित ऋकार को गुण-अर्, “द्वित्वबहुत्वयोश्च'' (३५१९) से . अगुण, प्रकृत सूत्र द्वारा अकार को उकार तथा सकार को विसर्गादेश।