________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपादः
५७५. उकारलोपो वमोर्वा [३।४।३५] [सूत्रार्थ]
असंयोग से परवर्ती विकरणघटित उकार का लोप होता है 'व्–म्' के परे रहते।। ५७५।
[दु० वृ०]
असंयोगाच्च परस्य विकरणस्योकारस्य लोपो भवति वा वमोः परतः। सुन्वः, सुनुवः। सुन्मः, सुनुमः। तन्वः, तनुवः। तन्मः, तनुमः। आद्यन्तवद्भावात्- 'सुनोमि, तनोमि' इति परत्वात् स्वरादेशत्वाद् वा सिद्धम्।। ५७५ ।
[दु० टी०]
उकार० । अर्थवशाद् विभक्तिविपरिणाम इत्याह – असंयोगस्य विकरणस्येति। 'सुन्वः, सुन्मः' इति युक्तम्, अवयवार्थस्य सम्भवात्। 'तन्वः, तन्मः' इति कथमिति मनसि कृत्वाह - आद्यन्तवद्भावाद् इति। "आद्यन्तवदेकस्मिन्" (का० परि० २०) इत्युच्यते, अर्थोऽत्रान्वयी अर्थवत्तायां व्यपदेशिवद्भावः, सार्वधात्कार्था हि भावकर्मकर्तारः, शब्दोपजननमात्रं विकरणा इत्यानर्थक्याद् व्यपदेशिवभावो न प्राप्नोति ? सत्यम्। "सहाभिधायिनो विकरणा:' इत्युक्तमेव। 'सुनोमि, तनोमि' इति परत्वाद् इत्युभयसावकाशे 'पूर्वपरयोः परो विधिर्बलवान्' (कलाप० २२१ । ५०) इति गण एवावयवव्यपदेशेन च स्थानिवद्भाव इति, स्वरादेशत्वाद् वेति ‘लोपस्वरादेशयोः स्वरादेशो विधिर्बलवान्' (का० परि० ३५) इति भावः। अगुणम् अनुवर्तयन्ति अन्ये। पुनरुकारग्रहणम् उकाराद् वमोर्लोप इति पञ्चमीयोगनिवृत्त्यर्थ इति। पुनर्लोपग्रहणं विकरणोकारस्येति सामानाधिकरण्यविघातार्थम्। किमर्थ वाग्रहणम् उत्तरत्र नित्यत्वमस्तीति विभाषा अनुमीयते, तर्हि पूर्वेष्वपि योगेषु संभाव्यते। यथा “कर्तृकर्मणोः कृति नित्यम्” (२।४।४१) इति स्थितम् ।। ५७५।
[वि० प०]
उकारलोपः। ननु कथं 'तन्वः, तन्मः' इत्यत्रोकारलोपः, यावता विकरणस्य य उकारस्तस्य लोप इति। अयं तूकारमात्रविकरण इत्याह – आद्यन्तवद्भावादिति। एकस्मिन्नपि व्यपदेशिवद्भावेनाद्यन्तवद्भावः। यथा 'राहो: शिरः, शिलपुत्रकस्य शरीरम्' इति भावः।। ५७५ ।
[बि० टी०]
उकार० । 'सुनोमि, तनोमि' इति वृत्तिः। 'सर्वविधिभ्यो लोपविधिर्बलवान्' (का० परि० ३४) इति कथन्न स्यात् चेत्, तुष्यतु दुर्जनः, तथापि स्वरादेशः स्यात् ।। ५७५ ।
[समीक्षा 'सुन्वः, सुन्मः, तन्वः, तन्मः' इत्यादि शब्दों के सिद्धयर्थ विकरण 'उ' के लोप