________________
कातन्त्रव्याकरणम्
किम्भूताद् विकरणात्, विकरणात् किम्भूताद् उकारान्तादिति। अत्रासंयोगग्रहणात् तदन्तमेव न्याय्यं स्यात्। किञ्चासन्दिग्धार्थं सूत्रं प्रशस्यते बुधैः।। ५७४।
[वि० प०]
उकारात्। कुर्विति। 'डु कृञ् (७७), हि, "तनादेरुः” (३।२।३७), "करोते:” (३ ५।४) इति गुणः, “अस्योकारः सार्वधातुके गुणे" (३।४।३९) इत्युकारः, “हौ च" (३।५।२४) इत्यगुणत्वम् ।। ५७४।
[बि० टी०]
उकारात्।। 'नुहि' इति वृत्तिः। ननु कथमुक्तं यावता पूर्वस्य व्यावृत्तिबलान्न भविष्यति ? सत्यम्। स्नुहीति प्रत्युदाहृतम्। एतदपि विषयीकरोति चेद् असंयोगस्य व्यावृत्त्या न भविष्यतीति चेद्, असंयोगादिति नानुवर्तते इष्टत्वादिति। अथवा 'उतो नोश्च विकरणात्' इत्येकयोगे सिद्धे पृथक्करणादसंयोगादिति निवर्तते इति कश्चित। वस्तुतस्तु स्नुहीत्यत्र विषयो नास्ति। असंयोगादित्यत्र न विद्यते संयोगो यस्मिन्निति तादृशस्य नोरित्युक्ते सिद्धत्वात्, किञ्च पूर्ववद् उत्त्वेन व्यावृत्त्या उकारस्य व्यावृत्ति: प्रतिबन्धुं न क्षमते। यथा 'मातुः स्मृतवान्' इत्यत्र कृयोगलक्षणषष्ठ्यभावो निष्ठादित्वात्। स्मृत्यर्थद्वारा भवत्येवेत्याह-विकरणादिति।। ५७४।
[समीक्षा]
उक्त सूत्र की समीक्षा द्रष्टव्य है, जिसमें पाणिनि के द्वारा नुविकरण-उकार' दोनों से परवर्ती 'हि' का लोप करने के लिए एक ही सूत्र बनाया गया है तथा कातन्त्रकार ने स्पष्टावबोधार्थ दो सूत्र बनाए हैं।
[विशेष वचन] १. विशेषणविशेष्यभावं प्रति कामचारः इति न युक्तः पक्ष: (दु० टी०)। २. किञ्चासन्दिग्धार्थं सूत्रं प्रशस्यते बुधैः (दु० टी०)।
३. अथवा 'उतो नोश्च विकरणात्' इत्येकयोगे सिद्धे पृथक्करणाद् असंयोगाद् इति निवर्तते इति कश्चित् (बि० टी०)।
[रूपसिद्धि]
१. तनु। तन् + हि-पञ्चमी। 'तनु विस्तारे' (७। १) धातु से पञ्चमीविभक्तिसंज्ञक मध्यमपुरुष–एकवचन हि' प्रत्यय, "तनादेरुः" से उ-विकरण तथा प्रकृत सूत्र से 'हि' का लोप।
२. कुरु। कृ + हि-पञ्चमी। ‘डु कृञ् करणे' (७।७) धातु से पञ्चमीविभक्तिसंज्ञक 'हि' प्रत्यय, “तनादेरुः' (३।२।३७) से उ–विकरण, “करोते:' (३।५।४) से ऋ को गुण-अर्, उ को प्राप्त गुण का "हो च'' (३।५।२४) सूत्र से निषेध, “अस्योकारः" (३।४।३९) से अकार को उकार तथा प्रकृत सूत्र से हि का लोप।। ५७४।