________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः
तमेव गम्यमानमितिशब्दं दर्शयति - काल इत्यधिकृतं वेदितव्यमिति । कालाधिकारस्य फलमाह - तेनेत्यादि । तेनेति हेतौ तृतीया । साधन इति प्रत्येकं सम्बध्यते - साधने वर्तमाने, साधनेऽतीते, साधने भविष्यति च कालाधिकारेण हेतुना तदेतन्न स्यादित्यर्थः ।
५३
एतदुक्तं भवति कालाधिकारेऽस्मिन् वर्तमानादिना साधनं न विशिष्यते, तेन वर्तमाने साधने न वर्तमानादिः, अतीते च साधने न परोक्षादिः, भविष्यति साधने च न भविष्यन्त्यादिः प्रत्यय इति, अपि तु काल एव विशिष्यते । तेन वर्तमानेऽपि साधने कालस्यातीतत्वाद् भविष्यत्त्वाच्चातीते भविष्यति च विहितः प्रत्ययो जात इत्याह ग्रामं गतो गमिष्यति चायं देवदत्त इति । अयमिति साधनस्य प्रत्यक्षपरामृश्यमानमूर्त्तिकत्वाद् वर्तमानताम् आह । अन्यथा ह्ययमिति साधनस्य वर्तमानत्वाद् वर्तमानाया एव विषय इति भावः । तथातीतभविष्यद्विषयाणां तु प्रत्ययानाम् अतीतभविष्यत्साधनविषयत्वमेव स्यादिति दर्शयन्नाह - रामो वनमगच्छत्, बलिरिन्द्रो भविष्यति । तस्मात् कार्यः कालाधिकार इति ।
-
ननु वक्ष्यमाणेषु योगेषु वर्तमानादिभिर्धात्वर्थं विशेषयिष्यामः । वर्तमाने धात्वर्थे वर्तमानाद् धातोर्वर्तमानादिः भविष्यति धात्वर्थे वर्तमानाद् धातोर्भविष्यन्त्यादिः। अतीते धात्वर्थे वर्तमानाद् धातोः परोक्षादिः । धात्वर्थश्च क्रियेति तत्सम्बन्धात् कालोऽभिधीयते, तत् किमनेनेत्याह - वर्तमानादिभिरित्यादि । द्रव्यस्य विशेषणे पूर्वोक्त एव दोषः स्यादिति । नित्य इत्यादि । नित्यत्वाद् व्यापकत्वाच्चाकाशकल्प एको यद्यपि कालस्तथापि वर्तमानो भूतो भविष्यन्निति । ये च वर्तमानादयो व्यपदेशास्तेऽस्य क्रियाद्वारका इत्यर्थः । द्रव्यस्थ इति कालो हि मूर्तिमद्भिः सर्वैरेव संयुक्तः, तत्संयुक्तेषु द्रव्येषु क्रियापि समवेता । तेन संयुक्तसमवायेन क्रियागतो वर्तमानादिव्यवहारः र: उपचारात् काले वर्तते, यथैकस्मिन् पुरुषे क्रियाभेदादनेकसंज्ञा दृश्यन्ते तथेहापीति । तदुक्तम् -
यथैकस्मिन् क्रियाभेदात् तक्षायाख्या प्रवर्तते ।
तथैकस्मिन् क्रियाभेदाट्टत्वाद्याख्या प्रवर्तते ॥ ( वा० प० ३ । ९ । ३२) । ऋतुरादिर्यस्या वर्तमानादेराख्यायाः सा ऋत्वादिः सा चासौ आख्या चेति विग्रहः || ४२६ |
[ क० च० ]
काले । काले इति सप्तम्यन्तमनुकृतम्, प्रथमार्थेऽपदमिति साम्प्रदायिकाः । अनुक्रियते इति अनुकृतमिति कर्मणि क्तप्रत्ययः । ततश्चानुकृतशब्देनानुकार्यमेवोच्यते ।