________________
५२
कातन्त्रव्याकरणम्
का इत्यधिकृतमिति । कश्चिद् आह - लुप्तप्रथमः 'काले' शब्दोऽधिक्रियते इति । ननु च कालो हि सर्वगतो नित्य एको निरवयवो निष्क्रियः इत्यादिभिराकारैराकाशमिव प्रतीयते, कथन्तर्हि वर्तमानादिभिर्व्यपदिश्यते ? सत्यम् । तस्य ये वर्तमानादयो व्यपदेशास्ते क्रियाद्वारा एव क्रियासु वर्तमानादिकाला उपचर्यन्ते, तस्माद् वर्तमानभूतभविष्यत्क्रियासम्बन्धात् तद्वति पदार्थे वर्तमानादयः कालशब्दाः सिद्धाः ।
तथा चाह
-
क्रियान्तरपरिच्छेदे प्रवृत्ता
या क्रियां प्रति ।
निर्ज्ञातपरिमाणा (लिङ्ग्यतेऽपरिमाणा) सा काल इत्यभिधीयते ॥ गुणभूतैरवयवैः समूहः क्रमजन्मनाम् । बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ॥ मुष्टिप्रस्थसुवर्णादि मूर्तिभेदाय कल्प्यते । क्रियाभेदाय कालस्तु संख्या सर्वस्य भेदिका ॥ क्रियाभेदाद्यथैकस्मिन् तक्षायाख्या प्रवर्तते । क्रियाभेदात् तथैकस्मिन् ऋत्वाद्याख्या प्रवर्तते ॥ एवं मनसिकृत्याह - नित्यो व्यापीत्यादि ।
आदित्यग्रहताराणां परिस्पन्दमथापरे । भिन्नमावृत्तिभेदेन कालं कालविदो विदुः ॥
( वा० प० ३ । ९ । ७७; ८|४; ९।२, ३२, ७६ ) । अयमपि क्रियाकाल एव, किन्तु सूर्यादिपरिस्पन्दक्रियाभिः परम्परया कर्तुः क्रियायाः वर्तमानत्वादिव्यपदेशप्रतिपत्तयो गरीयस्यो भवन्ति, सूर्यादिपरिस्पन्दस्य वर्तमानत्वादतीतत्वाद् भविष्यत्त्वाच्च उदाहताः कर्तृक्रिया अपि तथैवेत्यर्थः ।। ४२६ ।
[वि० प० ]
काले | अथ किमर्थं सप्तम्यन्तमनुक्रियते प्रथमान्त एवाधिक्रियताम् ? सत्यम् | प्रथमान्तत्वे हि वक्ष्यमाणेषु योगेषु (सम्प्रतिवर्तमानेत्यादिषु) सप्तम्या वाक्यार्थस्याघटनं स्यात् ।‘अर्थवशाद् विभक्तिविपरिणामोऽपि गरीयान् पक्षः' (का० परि० २५) इति । अस्तु तर्हि साक्षात् सप्तम्यन्ततेति चेत्, नैवम् । अधिक्रियमाणत्वात् प्रथमान्त एव युज्यते न सप्तम्यन्तो यथा कृदिति, यद्येवमधिक्रियमाणत्वात् कथन्न प्रथमा ? गम्यमानेनेतिशब्देन तदर्थस्याभिहितत्वात् । यथा गवित्ययमाहेत्यत्र गोशब्दान्न प्रथमा तथात्रापीति ।