________________
कातन्त्रव्याकरणम्
एवं च सति काले इति सप्तम्यन्तमनुकार्यमिति अनिष्टापत्तिः स्यात् । तस्मात् काले इति सप्तम्यन्तानुकरणमिति वक्तुमुचितम् । नैवम् । ‘काले' इत्यनेन सामानाधिकरण्येन नान्वयः किन्तर्हि वैयधिकरण्येन । तथाहि काले इत्यनेन सप्तम्यन्तमनुकृतम् । तेनानुक्रियतेऽनेनेति कृत्वा सूत्रनिर्दिष्टकालशब्दोऽनुकरणमिति सूचितम् ।
[पाठान्तरम् -
(यदाऽनुक्रियतेऽनेनेत्यनुकृतं करणे क्तप्रत्ययं कृत्वा सामानाधिकरण्येनान्वयः) यद्येवमस्मिन् पक्षे सप्तम्यन्तविशेषणं न संगच्छते | नात्र सप्तमी विहिता, किन्तर्हि अनुकार्यवर्णसमूहसमानरूपमनुकरणमिति ? सत्यम् । 'शब्दो नित्यः' इति वक्षेऽनुकार्यानुकरणयोरेकत्वाद् भेदो नास्तीति अनुकार्यस्य सप्तम्यन्तत्वादनुकरणमपि ? सप्तम्यन्तमुपचारात् । वयं तु करणे क्तप्रत्ययेऽपि सप्तम्यन्तम् इत्यनेन सहानुकृतस्य न सामानाधिकरण्यम्, किन्तु अनुक्रियतेऽनेनेत्यनुकृतं तत्र किमनुक्रियत इत्याकाङ्क्षायां सप्तम्यन्तमनुकार्यं तत् कर्मत्वेनोपस्थितमिति । अत्रापि न निष्ठादिष्विति निषेधात् सप्तम्यन्तशब्दान्न षष्ठीति ब्रूमः]।
तर्हि तस्य॑ च सप्तम्यन्तत्वात् कुतोऽपदत्वम् इति चेत्, न, अभिप्रायापरिज्ञानात् । तथाहि सूत्रे काले इति यनिर्दिष्टं तदनुकरणमेव । यत्तु अनुकृतमित्युक्तं तदनुक्रियतेऽनेनेति करणे तस्य विधानात्, तर्हि अनुकरणस्य कथं सप्तम्यन्तमुच्यते, तस्य चानुकार्याभिन्नत्वात् । न च शब्दस्य नित्यत्वपक्षेऽनुकार्यानुकरणयोरैक्याद् भेदो नास्ति इत्यनुकरणं कृतमिति नार्थान्तरमिति वाच्यम्, अनुकार्यशब्दस्यापि स्वरपरत्वेन निरर्थकत्वात् सप्तम्यन्तत्वस्यानुपपत्तेः ? सत्यम् | सप्तम्यन्तप्रकृतित्वादनुकरणमपि सप्तम्यन्तमुच्यते, नाप्यनुकार्यार्थमादायानुकरणस्य नानर्थकत्वमिति वाच्यम्, अनुकार्यानुकरणयोर्भेदस्यानङ्गीकृतत्वात् । यद् वा एवं वृत्तिर्योज्या- 'काले' इत्यनेन सप्तम्यन्तमनुकृतमनुक्रियते सप्तम्यन्तप्रकृतिभूतस्य काले इत्यस्यानुकरणं काले इति स्वरूपमित्यर्थः ।
नन्वेवं प्रकारेण काले इत्यनुकरणस्य निरर्थकत्वादेव लिङ्गत्वाभावात् प्रथमायाः प्राप्तिरेव नास्ति, कथं पञीकृता गम्यमानेनेतिशब्देन तदर्थस्याभिहितत्वात् प्रथमा न. वर्तते इत्युक्तम् ? सत्यम् । नैयासिकमते वृत्त्या पदजन्यपदार्थस्यैवान्वयबोधोपयोगित्वाद् वर्णानां स्वरूपेऽर्थे लक्षणा क्रियते ततः स्वरूपार्थमादाय एवार्थवत्त्वाल्लिङ्गसज्ञाया विद्यमानत्वात् प्रथमा प्रवर्तत एव, ततश्चान्वयानुरोधार्थं यः स्वरूपार्थो लक्षणया परिकल्प्यते तदर्थस्य स्वरूपार्थकनेतिशब्देनाभिधीयमानत्वात् स्वरूपेऽर्थे लक्षणाया अभावेन वृत्त्युपस्थाप्यार्थस्याभावात् लिङ्गसंज्ञाया अभावेन प्रथमा न वर्तते