________________
कातन्त्रव्याकरणम्
परिच्छिन्ना उभयान्तेन आद्यन्तावधिना अपरिच्छिन्नेत्यर्थः । उपचाराश्रयणं कष्टमित्याह - अथवेति । स हि सर्वोपाख्याविरहलक्षण इति । उपाख्या प्रसिद्धिः। सर्वप्रसिद्ध विरहो यत्र तल्लक्षणस्तत्स्वरूपोऽभावः किञ्चिद् विशिष्टतयापि न प्रतीयते इत्यर्थः । यद् वा सर्वेषां स्थावरजङ्गमादीनां या उपाख्या नाम तद्विरहलक्षणः एतेन चराचरभिन्नं वस्त्वेवं न भवतीत्यभिप्रायः।
नन्वेतादृशोऽप्यभावः कथं क्रिया न भवेदित्याह – नहीत्यादि । साधनस्यायत्त उदयो यस्येति । साधनस्य प्रयोक्तुरायत्तोऽधीनो ज्ञानं यस्येत्यर्थः । एतेन प्रयोक्त्रा पौर्वापर्यरूपेण सत्तादिकं गृह्यते इति भावः । ननु यदि गुणादिरपि प्रयोक्त्रा पौर्वापर्यभावेन गृह्यते तदा श्वेतादिशब्दवत् शुक्लादिशब्दानामपि धातुत्वं स्यात् ? सत्यम्, धातुसंज्ञया आख्यातिकप्रत्ययो विधातव्यस्तेन च धात्वर्थस्य साध्यता प्रत्याय्यते, ततश्च यदुत्तरप्रत्ययेन यस्य साध्यता प्रत्याय्यते श्रुतत्वात्तस्यैव धातुसंज्ञेत्यर्थे शुक्लादिपदाद् विहितस्याख्यातिकप्रत्ययस्य स्वभावात् शुक्लगुणगतसाध्यताप्रतिपादकत्वाभावान्न तेषां धातुसंज्ञेति । यद् वा भावग्रहणबलात् क्रियामात्रवाचकस्य शब्दस्य धातुसंज्ञा इत्यर्थस्य लब्धत्वेन भूयते इत्यादौ साध्यतार्थस्यातिरिक्तत्वाद् यथा धातुसंज्ञा टीकाकारेण निवार्यते तथाऽत्रापि शुक्लादिपदेन सिद्धताभूतशुक्लगुणस्याभिधीयमानत्वादिति न दोषः । एतेन पूर्वापरीभूतावयवत्वेन प्रतीयमानत्वं क्रियात्वमिति क्रियालक्षणम् ।
ननु प्रादीनां (अन्यत्र शक्तिकल्पनाभावात्) शक्त्यन्तराभावात् प्रपचतीत्यादौ धातूपसर्गसमुदायस्यैव विशिष्टेऽर्थे शक्तिरिति समुदायस्यैव धातुसंज्ञा स्यात् ? नैवम् । अन्वयव्यतिरेकाभ्यां पचादिरेव क्रियामाह, न तु प्रादिः । प्रादिस्तु क्रियाविशेषक इति । अन्वयव्यतिरेको यथा प्रपचतीत्यत्र आदिकर्म विक्लित्तिश्च प्रतीयते इति, पचतीत्युक्ते आदिकर्म न प्रतीयते किन्तु विक्लित्तिमात्रमिति । असत्यपि पचौ प्रादीनां प्रकर्षादिकर्मादिकं विक्लित्तिश्च न प्रतीयते इति । न चोपपदस्य पचधातोश्च प्रत्येकमर्थवत्त्वाद् विशिष्टार्थप्रतिपादकस्य प्रपचतिसमुदायस्य धातुसंज्ञा स्यादिति वाच्यम्, यस्माद् विहितप्रत्ययेन यस्यार्थस्य साध्यता प्रत्याय्यते तदर्थवाचकस्यैव धातुसंज्ञाङ्गीकारात् । यथा 'मृद्वपाक्षीत्' इत्यत्र मृदुशब्दस्य क्रियाविशेषणत्वेऽपि मृदुसमुदायस्य न धातुसंज्ञा ।
ननु यत्रोपसर्गसन्निधावपि धातोर्विकल्पितार्थः प्रतीयते, तत्राधिकार्थस्य वाचको भवतु नोपसर्गः । यत्र प्रतिष्ठते इत्यत्र न क्लृप्तार्थोऽवगम्यते, किन्तु अर्थान्तरमात्रं तत्रोपसर्गसमुदायस्यैव गत्यादौ शक्तिर्युक्तेति तत्रैकदेशस्य निरर्थकस्य कथं