________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः
४३ भवतीति । प्रकृतिविकारभावविवक्षायां तु च्चिप्रत्ययः, यथा बीजमकुरीभवति । अथवेत्यादि । न खल्वत्यन्तासदुत्पत्तिः प्रादुर्भावः, अपि तु जायते विशेषेणोपलभ्यते । पत्रकाण्डादिभेदेन स्फुटीभवतीत्यर्थः । तथाहि 'प्रादुः' शब्दो प्रकाशेऽभिधानकाण्डेषु दृश्यते प्रकाशश्च सत एवेत्याह – अतोऽङ्कुरस्य कर्तृत्वमिति पूर्वापरीभावोऽपि जन्मनि पाकादिक्रियावद् विद्यते इति सर्वमनवद्यम् । तथा चोक्तम् इत्यादिना व्यक्तमेव वृद्धमतसंवादेन दृढयति । आश्रितं क्रमरूपं येन तदाश्रितक्रमरूपं सिद्धमसिद्धं वा तस्य भावस्तत्त्वं तस्माद् यावत् साध्यत्वेन प्रतीयते सा क्रियेति सम्बन्धः ।। ४२५।
[क० च०]
क्रिया० । क्रियते इति वृत्तिः। ननु क्रियते इति क्रिया साध्यम् उच्यते इत्युक्ते कृधातोरर्थ: करणम्, आत्मनेपदार्थश्च व्याप्यम् । ततश्च ‘कटं करोति' इत्यादौ करणव्याप्यत्वेन कटादेरपि क्रियात्वं स्यात् ? नैवम् । कृधातोरत्र प्रयत्नोऽर्थः, ततश्च प्रयत्नरूपं यदधिश्रयणादिकं तत् क्रियेति । एतेन प्रयत्नजन्यत्वं क्रियात्वमिति क्रियालक्षणमिति कश्चित् । तन्न, प्रयत्नजन्यस्यैव क्रियात्वे प्रयत्नस्य क्रियात्वं न स्यात् । ततश्च प्रयत्नमात्रवाचकस्य कुतो धातुत्वम् इति । तस्मात् क्रियते इति क्रियेति वृत्तिकृता यदुक्तं तद्व्युत्पत्तिमात्रप्रदर्शनपरम् । वस्तुतः क्रियालक्षणमाह - सा चेत्यादि । अस्यायमर्थः- अपूर्वापरौ पूर्वापरौ सम्पन्नौ पूर्वापरीभूतौ तादृशाववयवौ यस्या इति पजी। ननु पचिवाच्याधिश्रयणादीनामाशु विनाशिनां कदाचिदपि तादृशपूर्वापरत्वेन स्थितेरभावात् कथं च्चिप्रत्ययः संगच्छते ? सत्यम् । अवयवो हि द्विविधः - क्रमिकावस्थितः अक्रमिकावस्थितश्च । तत्र घटादेरेकदैव सर्वावयवस्य विद्यमानत्वादक्रमावस्थितत्वम्, पचिवाच्याधिश्रयणादेस्तु आरोपितसमुदायस्याधिश्रयणाद्यवयवानामाशुविनाशित्वेन क्रमावस्थितत्वम्, ततश्च यदेवावयवत्वं क्रमिकाक्रमिकयोर्वर्तते, तदेव धर्मित्वेनात्र परिकल्प्यते, तेन यदा तदेवावयवत्वम् अक्रमीभूतघटाद्यवयवं विहाय क्रमीभूताधिश्रयणाद्यवयवे वर्तते, तदा प्रकृतिविकारभावः।
न चावयवत्वस्य जात : पौर्वापर्याभावादपूर्वापरौ पूर्वापरौ सम्पन्नौ इति कथं संगच्छते इति वाच्यम्, धर्मधर्मिणोरभेदस्य विवक्षितत्वात् । यथा दीर्धीभवतीत्यत्र हस्वदीर्घोभयवर्णानुगतं वर्णत्वमेकं धर्मित्वेन परिकल्प्य च्चिप्रत्ययः इति । एतदेव मनसि कृत्वाह पत्री - अक्रमस्येत्यादि । एतेन पूर्वापरीभूतावयवत्वमिति क्रियालक्षणं सत्ता नित्यतेति पत्री | ननु असधातो वि पठितत्वात् कथं तस्य सत्तार्थोऽवगम्यत इत्याह - अस्तिरयमिति भवतेरर्थोऽर्थो यस्येति मध्यपदलोपी समासः । नित्यतापदेन सह सत्तापदस्य सामानाधिकरण्यं दृष्टान्तेन साधयति – अथेत्यादि । उभयान्ता