________________
४२
कातन्त्रव्याकरणम्
सर्वोपाख्याविरहलक्षणस्तत् कथं क्रिया भवेत्, न हि तस्य पौर्वापर्यमस्तीति कथं तवाचकस्य नशेर्धातुत्वमिति । श्वेतसंयोगावपि गुणाविति । गुणत्वाच्च पौर्वापर्यं नास्त्यनयोरिति । कथं तद्वाचकस्य श्वितेः संयुजेश्च धातुत्वमिति भावः । तथा समवायोऽपि नित्यत्वादक्रमरूपत्वाच्च क्रियातोऽत्यन्तं भिन्न एवेत्याह- समवायोऽप्यर्थान्तरमिति । तस्मान्न तद्वाचिनः समवपूर्वस्येणो धातुत्वमिति । परिहारमाहसत्यमित्यादि । हिशब्दो यस्मादर्थे । साधनस्यायत्त उदयो यस्येति विग्रहः । यस्मादिह ब्याकरणे साधनायत्तोदयं सर्वम्, अतस्तदधीनतया साधनाधीनतया सिद्धमपि नित्यमपि पूर्वापरीभावेनानुच्यमानमपि क्रियात्वेनावभासते इति । सिद्धमपीति । न केवलमभावादिकमनित्यम्, नित्यमपि इत्यपिशब्दार्थः ।
कथमेव गम्यते इति चेदाह - क्रियेत्यादि । बुद्धयवस्थैव निबन्धनं कारणं तस्मादिति । अयमर्थः– सत्तावतोऽर्थस्य क्रियायां पूर्वापरीभावेन व्यापारोपलम्भात् तद्गतसत्तापिपूर्वापरीभूता बुद्ध्या परिकल्प्यते, अतस्तन्निबन्धनस्तस्यामपि क्रियाव्यवहार इति । तथा चोक्तम्- 'साधनव्यवहारश्च बुद्धयवस्थानिबन्धनः' ( वा० प० ३।७।३) इति । एवमभावादिष्वपीति । तथेति, 'गडि बदनैकदेशे' (१।१३१) द्रव्येऽपि वर्तमानस्य गण्डेः पूर्ववद् धातुत्वमित्यर्थः । तेन 'गण्ड:' इत्यपि सिद्धम् । तथा 'बिदि अवयवे' (१।२३) द्रव्येऽपि वर्तमानस्य बिदेर्बिन्दुरिति । अथवा अक्रियावाचिनामपि क्रियावाचिषु मध्ये पाठस्तत्कार्यप्रतिपत्त्यर्थ एव भविष्यति । अन्यथा तेषु मध्ये पाठस्तेषामनर्थक एव स्यादिति । अङ्कुरो जायते इति कथमिदम्, तथाहि प्रादुर्भावः कर्तृत्वं चेति द्वयमिह घटनीयम्, तत्तु दुर्घटमेव । प्रादुर्भावो ह्रासदुत्पत्तिः कर्तृत्वं च सत एवेति परस्परविरुद्धयोर्द्वयोरेकं सन्धित्सतोऽन्यत् प्रच्यवत इति ? सत्यम् | अङ्कुरसामान्यं कर्तृ तद्विशिष्टा व्यक्तिः पूर्वमसती जायत इति धात्वर्थोऽपि घटते इत्याह - जन्म चेति । अथवा अन्तस्तत्त्वगृहीतः पूर्वदृष्टोऽङ्कुरः कर्ता तस्य बाह्यरूपतया जन्म चाभूतप्रादुर्भाव एवेति । न च वक्तव्यम्, अन्यः कर्ता अन्यश्च बाह्यो जायते, ततो भिन्नविषयत्वादयुक्तमिति । अन्तस्तत्त्वगृहीतस्य बाह्येनैकत्वाध्यवसायात्, तथाहि य एव मया पूर्वमध्यवसितः स एवायं दृश्यते बाह्य इति दृश्यविकल्पितयोरेकत्वेन व्यवहारो दृश्यते । तथा चोक्तम्- 'दृश्यविकल्पिताबथविकीकृत्य व्यवहारप्रतिपत्तिः' इति ।
सत्कार्यवादिनां तु मते कारणमेव कार्यरूपेण विपरिणमते इति युक्तं कर्तृत्वमकुरादेः कारणावस्थायामेव कार्यस्य शक्तिरूपेण विद्यमानत्वात् | आविर्भावश्च जन्मार्थः : स च पूर्वमसन्नेवेति अभूतप्रादुर्भावो जन्मापि संगच्छत एवेति । एवमङ्कुरो