________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः
‘उदमनायत, अभ्यमनायत' इति " कर्तुरायिः सलोपश्च " ( ३ |२|८), ह्यस्तन्यामात्मनेपदम् | क्रियाभावो धातुश्चेत् तदा ( प्रपरा - इत्यादीनामपि) 'अलपयति, वर्पयति, वफति, किषति' इत्यादीनामपि धातुत्वप्रसङ्ग इति ? सत्यम् । शिष्टप्रयोगानुसारीदं लक्षणम्, शिष्टैश्च ते न प्रयुक्ता इति एषामर्थवत्तैव नास्ति ।
४१
अपरस्त्वाह - धातुरिति महतीयं संज्ञा पूर्वाचार्याणां तदभ्युपगतार्था, अतस्तन्निवृत्तिस्तदा ‘हिरुक्, पृथक्' - इत्यादीनां चाव्ययानां क्रियावाचिनां निवृत्तिरिति । एतेऽपि हि अव्ययत्वेनैव शिष्टानुशिष्टेषु प्रसिद्धाः । एवं चुलुम्पादयोऽप्यपठिता गणे धातवो भवन्तीति मतम्, भ्वादिपाठस्तु अनुबन्धसंजननार्थो गणार्थश्च येषां तूभयं नास्ति, तेषां तु प्रसवः इत्यादीनां क्रियाप्रदर्शनार्थः पाठो बालहितायेति क्रियाभाव इति किम् ? पटुर्मृदुर्नाम्यन्तलक्षणो गुणः स्याद् गुणाश्रये कर्तरि कर्मणि च त्यादयोऽपि स्युरिति ।।४२५। [वि० प० ]
क्रिया० । क्रियां भावयतीति प्राप्ये कर्मण्यण् । स्वभावाद् भवतिरयमिनन्तः प्रतिपादने वर्तते । क्रियते इति क्रियेति करोतेः "कृञः शच” (४।५।७७) इति शप्रत्ययः कर्मणि । सार्वधातुके यण् " यणाशिषोर्ये" ( ३ | ६ । १३) इकारागमः । सा च पूर्वापरीभूतावयवैवेति । पूर्वश्चापरश्च पूर्वापरौ, अपूर्वापरौ पूर्वापरौ सम्पन्नौ पूर्वापरीभूतौ, तादृशाववयवौ यस्या इति विग्रहः । इहाक्रमस्य क्रमप्राप्तिश्च्विप्रत्ययेनोच्यते । तत्र पूर्वोऽवयवोऽधिश्रयणादिः, अपरश्चोदकसेकादिः पाकक्रियायाः । एवमन्यासामपि वेदितव्यम् । यदि पूर्वापरीभूतावयवा क्रिया तवाचकः शब्दो धातुरित्येतदुपजीव्याह- कथन्तर्हीति । न ह्यसादीनामर्थस्य क्रियात्वं पूर्वापरीभूतावयवस्यैवासम्भवादिति । एतदेव क्रमेणार्थं कथयन् दर्शयति- सत्ता नित्यतेत्यादि । अस्तिरयं भवत्यर्थः, भवतिश्च सत्तार्थः, सत्ता च नित्या, नित्यस्य चाक्रमरूपत्वात् पौर्वापर्यन्नास्तीति कथं तद्वाचकस्यासेर्धातुसंज्ञा ? ननु सत्ता नित्येति वक्तुमुचितम्, न तु सत्ता नित्यतेति तस्यास्तद्धर्मरूपत्वात् । अथोभयान्तापरिच्छिन्ना वस्तुसत्ता नित्यतेति वचनादेवमुच्यते, तदयुक्तम्, विवक्षितार्थापरिज्ञानात् । तत्र हि नित्यताया लक्षणं दर्शितम्, इह तु सत्ताया नित्यत्वं दर्शयन् क्रियात्वं प्रतिक्षिपति । यस्मात् सत्ता नित्या तस्मात् क्रिया न भवितुमर्हतीति ? सत्यम् । नित्यताधर्मयोगात् सत्ता नित्य वृत्तौ सामानाधिकरण्यं न विरुध्यते ।
अयमर्थः – यस्मान्नित्यतायुक्ता सत्ता तस्मान्न क्रिया भवितुमर्हतीति । अथवा सत्ताया नित्यता सत्तानित्यतेति षष्ठीलक्षणस्तत्पुरुषः । अभावो नाश इति । स हि