________________
कातन्त्रव्याकरणम्
अथ सत्यपि धर्मातिरेके क्रियात्वमस्तीति कथन्न धातुसंज्ञा । तथा चाह - क्रियावाचकमाख्यातमिति ? सत्यम् । भावयतिना स्वभावात् शुद्धक्रियानिष्ठ एव शब्द उच्यते । यद्येवं क्रियार्थ इति कथन्न विदध्यात् क्रियैवार्थो यस्य स क्रियार्थः इत्यवधारणं गम्यते । यथा अप एव भक्षयतीति अन्भक्ष इति, अर्थग्रहणं क्रियात्वेन नियमार्थम् । अन्यथा क्रियाधातुरिति ब्रूयादिति अर्थे कार्यासम्भवात् तद्वाचिनां ग्रहणं भविष्यति । तदयुक्तम्, सत्यप्यर्थग्रहणे अन्यत्रापि प्रवर्तमानस्य धातुत्वमिति कथन्न स्यात् प्रतिपत्तिश्च गरीयसीति यथान्यायमेव श्रेयः। ननु यदि क्रियायां वर्तमानस्यान्यार्थत्वे सति न धातुत्वमिति नुयावादिवित्यादयो दूष्याः । एते हि क्रियार्थाः सन्तोऽन्यार्थाश्च दृश्यन्ते । 'नु स्तुतौ वितर्के च' (२७) निपातः । 'या प्रापणे उद्देशे च' (२।१६) स्त्रीलिङ्गं सर्वनाम । 'वा गतिगन्धनयोर्विकल्पे च' (२।१७) निपात इति । 'दिव क्रीडादौ' (३११), व्योम्नि स्वर्गे च नामेति । नैवम्, अन्य एव हि क्रियार्थोऽन्य एव हि तत्प्रतिरूपकः इति । प्रपचतीत्यादावप्यन्वयव्यतिरेकाभ्यां पचादिरेव क्रियामाह - न प्रादिः, स च क्रियाविशेषक इति । तथाहि प्रपचतीत्यत्रादि कर्मविक्लित्तिश्च प्रतीयते पचतीत्यत्र प्रेण विना आदिकर्मत्वं न प्रतीयते, विक्लित्तिश्च प्रतीयते । एवमसत्यपि पचौ प्रपठतीत्यत्र प्रेत्यादिकर्म प्रतीयते एव न विक्लित्तिरिति । प्रतिष्ठते इत्यत्र तिष्ठतिः प्रेण विना गतिनिवृत्तौ गतावदृष्टोऽपि क्रियायां दृष्टत्वात् । अनेकार्याश्च धातवो भवन्ति । यथा शालीन् वपति, विकिरति । केशान् वपति, छिनत्तीति विरुद्धार्थानां च शब्दानामुपलम्भात् । यथा आराद् दूरान्तिकयोरिति । प्रशब्दः पुनः क्रियायामदृष्टः आदिकर्मणि तु क्रियाविशेषणत्वेन दृष्टः इति तस्या व्यवच्छेदक एव (तस्य व्यवच्छेदक एव) । एवं 'प्रलम्बते' इत्यत्रोपसर्गादान्तरावगमेऽपि लम्बिरेव क्रियाभाव इति । 'अधीते, अध्येति' इति च यद्यपि इङिकावधिं न व्यभिचरतस्तथापि शिष्टैस्तथैव प्रयोगात्, अधिस्तु तौ व्यभिचरति । तत्र योऽन्यत्रास्यार्थः- ग्रामेऽधिकृतोऽधिपतिरित्युपरिभावः स एवात्रापीति पारिशेष्यादिङिकावेव क्रियाभावौ भवतः इति । तथा ह्यधीते इत्यर्थवतां शब्दानां निः सहेतूनां विधिपूर्वकं विशिष्टशब्दानामुपरिभूतं प्रतीयते, अध्येतीति च स्मरणं ज्ञानं ज्ञानार्थविषयमुत्तरकाले भाविपूर्वज्ञानस्योपरीति । तथा च 'इङ् अध्ययने, इक् स्मरणे' इति इङिकोरेव क्रियाभावत्वेन निर्देशः । किञ्च यदि सोपसर्गा एव समुदांयाः विशिष्टां क्रियामाचक्षते तदन्वयव्यतिरेकानुविधानात् तस्या इति तदा 'संग्राम युद्धे' (९।२१९) इति चुरादौ न पठितव्य एव स्यात् । संगतो ग्रामः संग्रामस्तं करोतीति इनि कृतेऽपि संग्रामयतीति सिध्यत्येव । तस्मादुपसर्गस्य न धातोरन्तर्भावः । यथा