________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः
३९ भुवोऽर्थमभिदधतीति । तथा श्वेतादय: श्वेतत इत्यादौ, तथा वदनैकदेशे द्रव्येऽपि गण्ड इति । तथा बिन्दुरिति । तथा अङ्कुरो जायते इति अङ्कुरसामान्यं कर्तृ तविशिष्टो जन्मार्थो जायते विशेषेण प्रकाशते इत्यर्थः । अथवा अन्तस्तत्त्वनिष्पन्नः पूर्वदृष्टोऽङ्कुरः कर्ता बाह्यरूपतया तु जन्य इति ।
न च भिन्नविषयता, दृश्यविकल्पितयोरेकत्वेनाध्यवसायात् । यथोक्तं दृश्यविकल्प्यावावेकीकृत्य व्यवहारप्रवृत्तिरिति । प्रत्यक्षेऽपि ज्ञानाकार एव संवेद्यते, न बाह्यं स्वलक्षणं केवलं तत्सन्निधाने तदाभासं नीलादिज्ञानमुत्पद्यते । बाह्यलक्षणसंवेदने हि ज्ञानस्याग्निस्वरूपतास्वीकारे दाहादिप्रसङ्गः । साकारं च ज्ञानं स्वप्नावस्थायां स्मरणावस्थायां च सिद्धं तदा बाह्यात्माऽसन्निधेर्न बाह्य ः साकारो बाह्यात्मानुभवादिकः स इति चेद् भवतु स त्वाकारो ज्ञानगतो न बाह्यार्थगतः, तदा तस्यासन्निधेरिति । निराकारपक्षेऽपि किमाकारं तज्ज्ञानं तदेति वक्तव्यम् । साकारपक्षेऽपि प्रतिनियताकारसंवेदनं स्यान्नान्यथा । अतो यथाध्यवसायमात्रं कारकव्यवस्था । बौद्धेऽपि मते यथोक्तम् - 'साधनव्यवहारश्च बुद्ध्यवस्थानिबन्धनः' (वा० प० ३।७।३) इति सद्वादे तु कारणमेव कार्यरूपेण परिणमते इति युक्तम्, कर्तृत्वमङ्कुरादेर्जन्मार्थो ह्याविर्भावः प्रागसत्त्वादिति अभूतप्रादुर्भावो जन्म च संगच्छते प्रकृतिविकारभावविवक्षायां तु च्चिप्रत्ययो यथा बीजमङ्कुरीभवति कार्योत्पत्तौ चोच्छूनकारणाद्यवस्थाभेदे न क्रमोऽपि जन्मनि बुज्यते न चासौ कारणगतो धर्मः, किन्तु कार्याभिमुखीभावेनैव तादवस्थ्योपलम्भात् ।
वैशेषिकादिदर्शने तु अदृष्टप्रबोधितारम्भशक्तयः परमाणवः समवायिकारणे निमित्तकारणबलेन विकारमादधानाः कार्यद्रव्यस्य जन्मनि पौर्वापर्यं दर्शयन्तीति व्यक्तस्तत्र क्रमोपलम्भ इति । तदा दुष्यतीति विकृतभावाद्यवस्थादर्शनात् क्रमो युज्यते, एवं प्रध्वंसाभावेऽप्यदोषः । प्रागभावस्तु जन्मना व्याख्यातः, अत्यन्ताभावेऽपि प्रतिषेध्यार्थापेक्षणाद् अस्त्येव संस्पर्शादिः । इतरेतराभावेऽपि सन्निहितासन्निहितभावयोः स्पर्श एव (स्पष्ट एव) वस्तुतः संस्पर्श इति स्थितम् । ननु पच्यते पाकः इत्यादिषु कथमिह न धातुसंज्ञा भावः क्रियेत्युक्तम् ? नैवम्, क्रियायाः साध्यता हि धर्मस्त्यादिवाच्य इति सिद्धता च घञादिवाच्य इति नासौ धात्वर्थो व्यतिरेकित्वादिति । तथाहि पच्यते इति सत्यपि पचौ न सिद्धतार्थः, असत्यपि पचौ पाक इति सिद्धता प्रतीयते । असत्यप्यात्मनेपदे घनादौ प्रतीयते पाक इति सत्यपि पचौ न साध्यता असत्यपि पच्यते इत्यत्र प्रतीयते सत्यात्मनेपदे अन्य एव हि प्रतिभासो लिङ्गसंख्याकारकरहितः साध्यतालक्षणस्तवाचकः (ततस्तु) सिद्धतालक्षण इति ।