________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः
४५ धातुसंज्ञेति ? सत्यम्, प्रेण विना गतावदृष्टोऽपि तिष्ठतिर्गत्यर्थः परिकल्प्यते इति । न च गतावपठितत्वात् कथं तिष्ठतिर्गत्यर्थः स्यादिति वाच्यम्, 'अनेकार्थाश्च धातव इत्यङ्गीकारेण गतावप्यस्य वर्तमानत्वात् । यथा 'केशान् वपति' इत्युक्ते छिनत्तीति गम्यते, शालीन् वपतीति विकिरतीति गम्यते, नाप्येकस्यैव तिष्ठतेर्विरुद्धोभयार्थता कथं घटतामिति वाच्यम्, शब्दस्य विरुद्धार्थयोरप्युपलम्भात् । यथा 'आराद् दूरसमीपयोः' (अ० को० ३।३।२४२) इति आरात्-शब्दस्य विरुद्धोभयार्थत्वात् । ननु 'प्रतिष्ठते' इत्यादौ प्रशब्दस्य प्रकृष्टक्रियायां दृष्टत्वात् तिष्ठतौ प्रशब्दे वा शक्तिरित्यत्र नियामकाभावात् समुदायशक्तिरेव न्याय्येति । नैवम्, प्रशब्दस्य विशेषाभिधायकत्वं न दृष्टं तिष्ठतेस्तु तद् दृष्टमिति निश्चिताभिधायक एव शक्तिः कल्प्यत इति । अथ तद्दर्शनमात्रमकिञ्चित्करम्, अन्वयव्यतिरेकाभ्यां प्रशब्दस्यैव गतौ शक्तिरिति वक्तुं युज्यते । अत एव सर्वत्रोपसर्गस्य वाचकत्वमिति कन्दलीकारादिभिरप्युक्तमिति न वाच्यम्, यावता तिष्ठतेरानर्थक्ये प्रत्ययार्थान्वयो गतौ न स्यात्, प्रकृत्यान्वितस्वार्थबोधकत्वं प्रत्ययानां व्युत्पत्तिरिति । तर्हि प्रशब्दोच्चारणं किमर्थमिति चेत् तस्य गतेरेव द्योतनार्थमिति धातोर्गत्यर्थाभिधायकतायां शक्तिपरिचायकत्वं प्रशब्दस्येति । एतेन सर्वत्रैव धातोः क्लुप्तानेकार्थत्वेन प्रपचतीत्यत्रापि प्रावच्छेदेन पचिनैव प्रकृष्टपचनमभिधीयते । प्रगतो नायकः ‘प्रणायकः' इत्यादौ अध्याहृतगतिक्रियां प्रत्युपसर्गत्वमिति यथा प्राध्वमित्यत्र "उपसर्गादध्वन्" (२।६।७३-३२) इत्यत्प्रत्ययः । अन्यथा उपसर्गत्वाभावादत्प्रत्ययो न स्यादिति ।
ननु कथमिकिङोर्धात्वोर्धातुसंज्ञा, यावता अनयोरधिसहितयोरेवार्थवत्त्वं न केवलयोरिति, यस्त्वनयोर्गणेऽर्थनिर्देशः समुदायार्थमवयवेऽध्यारोप्य कृतः इति न्यासकृतोक्तं तस्मादधिपूर्वयोरेवानयोर्धातुसंज्ञा भवितुमर्हतीति ? सत्यम्, 'अधीयते, अध्येति' इति च यद्यपीङिकावधिं परित्यज्य न तिष्ठतस्तथापि शिष्टैरिङिकोरध्ययनस्मरणयोः प्रयुक्तत्वाद् इङिकावेव क्रियाभावौ भवत इति । अधिस्त्विङिको परित्यज्य ग्रामेऽधिकृतो ग्रामेऽधिपतिरित्यादौ अधिकार्थमेवाचष्टे, अतोऽन्यत्राप्यधेः स एवार्थ: कल्पनीयः इति कथं समुदायशक्तिः कल्पनीया । किञ्च यदि सोपसर्गा एव क्रियावाचकाः स्युस्तदा 'संग्राम युद्धे' (९।२१९) इति न चुरादौ पठितः एव स्यात्, यावता संगतो ग्रामस्तं करोतीतीनि कृते संग्रामयते इति सिद्धमेव । तस्माद् गणे संग्रामशब्दपाठ एव ज्ञापयति - सोपसर्गस्य न धातुत्वमिति । अथात्मनेपदार्थमेव 'संग्राम युद्धे' इति
१.
द्र०, समीक्षा , इसी सूत्र की।